ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 232, कुल 518 में से
संदर्भ में पढ़ेंपुनर्हिङ्कारं प्रशंसति—
एष वै साम्नाँ२रसो यद्धिङ्कारो यद्धिङ्कृत्य प्रस्तौति
रसेनैवैता अभ्युद्य प्रस्तौति ॥ ७ ॥
रसः सारः साम्नामादौ प्रयुज्यमानत्वादस्य रसरूपत्वम्। यद्यदि हिङ्कृ-
त्य रसरूपं हिङ्कारमुच्चार्य स्तौति गायति। स्तोत्रीयाः रसेनैव एताः
स्तोत्रीयाः तृचा अभ्युद्याभिवन्दनं कृत्वा प्रस्तौति गायति ताः सरसाः
करोतीत्यर्थः ॥ ७ ॥
बहिष्पवमानस्तोत्रीयाः सर्वाः समानदेवताः समानच्छन्दस्काश्च
भवन्ति तत् स्तौति—
आरण्येभ्यो वा एतत् पशुभ्यः स्तुवन्ति यद्बहिष्प-
वमानमेकरूपाभिः स्तुवन्ति तस्मादेकरूपा आरण्याः
पशवः ॥ ८ ॥
बहिष्पवमानं स्तोत्रमेकरूपाभिः स्तोत्रीयाभिः स्तुवन्तीति यत्
समानदेवताकत्वं समानच्छन्दस्कत्वञ्चैवैकरूप्यन्तासां खलु। पवमानः
सोमो देवता गायत्रीच्छन्दः एतदेतैनेकरूपस्तवनेन आरण्येभ्यः पशुभ्य
एकरूपेभ्यस्तेषां लाभार्थं स्तुवन्ति। तस्मात् स्तोत्रीयाणामैकरूप्यादार-
ण्याः पशवः 'गोमायुर्गोमृगो गवय उष्ट्रः शरभो हस्ती मर्कट' इति सप्त-
संख्यकाः सर्व एकरूपा एकवर्णा भवन्ति ॥ ८ ॥
अथ स्तोत्रीयाणामनावृत्तिं स्तौति—
पराचीभिः स्तुवन्ति तस्मात् पराञ्चः प्रजायन्ते
पराञ्चो वितिष्ठन्ते ॥ ९ ॥
पराचीभिरनावृत्ताभिः स्तुवन्ति 'तिसृभ्यो हिङ्करोति स पराचीभि'
रिति हि पूर्वमुक्तम्। तस्मात्प्राञ्चोऽधोमुखाः प्रजायन्ते सम्भवन्ति। अधो-
मुखाः पराञ्च एव हि मनुष्या जायन्ते। किञ्च पराञ्चो वितिष्ठन्ते स्वर्गादि-
प्राप्तौ। पराङ्मुखा एव इह लोकात्पतन्तीति निवृत्तमुखा एव प्रयतन्ते ॥९॥
बहिष्पवमानस्यापवृत्त्यभावं प्रशंसति—
अपरिश्रिते स्तुवन्ति तस्मादपरिगृहीता आरण्याः
पशवः ॥ १० ॥
परिश्रयणन्तृणपर्णादिभिरपवरणं तद्रहिते अपरिश्रिते बहिर्वेदिदे-
शे स्तुवन्ति तस्मादारण्याः पशवः अपरिगृहीता भवन्ति ॥ १० ॥