ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 164, कुल 518 में से
संदर्भ में पढ़ेंतस्य महाव्रतस्य प्राची दिक् शिरः। तदात्मकमित्यर्थः। तत् छन्दो-
भिर्गायत्र्यादिभिः साहस्रसम्बन्धी। यद्यप्यसावन्यतरोऽयमन्यतर इति
पक्षयोः सम्बन्धविशेषोन श्रुतः तथापी'यं वै रथन्तरमसौ वै बृहदि'ति
श्रुतेः, विशेषोऽवगम्यते। अन्तरिक्षं अन्तरिक्षलोक आत्मा तद्वयोभिः प-
क्षिभिः साहस्त्रं अन्तरिक्षचारित्वात् पक्षिणां प्रतीचीदिगात्मकं पुच्छं
तत् अग्निभिश्च रश्मिभिश्च साहस्त्रं वेद यजमानस्य प्रतीच्यां हि गार्ह-
पत्यादिरूपेण भूयांसोऽग्नयो भवन्ति उदितस्य चादित्यस्य रश्मयः
प्रतीच्यां प्रसरन्तीति प्रतीच्यात्मकं पुच्छम् अग्निभिश्च रश्मिभिश्च सह-
स्त्रसम्बन्धीत्यर्थः। एवं प्राच्याद्यात्मकेषु महाव्रतावयवेषु सहस्रयोगित्वं
यो वेद दशसहस्त्रं पशूनाप्नोति। आदावुक्तस्यैवोपसंहारः ॥ ३ ॥
अस्मिन् कल्पे वामदेव्यमात्मत्वेन कार्यमित्युक्तं तन्निरस्यति—
तदाहुरपृष्ठं वै व्वा॒मदे॒व्यम॑निध॒नं॑हीति ॥ ४ ॥
तत्तत्र महाव्रते ब्रह्मवादिन आहुः। अत्र पृष्ठमिति होतुरेव पृष्ठस्तोत्रं
विवक्षितं वामदेव्यं होतुः पृष्ठत्वे अयोग्यं कुतः? अनिधनं हि तदृचो
बहिर्भूतनिधनं यतोऽस्य नास्ति तत इत्यर्थः ॥ ४ ॥
अनिधनत्वं कथमपृष्ठत्वे हेतुः तत्राह—
अनायतनं वा एतत् साम यदनिधनम् ॥ ५॥
साम्नो निधनमायतनं यस्य नास्ति तदनायतनं आयतनरहितम-
प्रतिष्ठितं ततो वामदेव्यस्य पृष्ठानर्हतेत्यर्थः ॥ ५ ॥
तर्हि किम्महाव्रतस्यात्मत्वेन कार्यं तदाह—
राजनम्महाव्रतं कार्य्यम् ॥ ६ ॥
इन्द्रमन्वोनेमधितेत्यस्यामुत्पन्नं राजनाख्यं साम तदासेति तृचे अ-
स्य स्तोत्रस्यात्मत्वेन कार्य्यम् ॥ ६ ॥
तदेतत्प्रशंसति—
एतद्वै साक्षादन्नं यद्राजनं पञ्चविधं भवति पाङ्क्तं॒ ह्यन्नम् ॥७॥
एतत् खलु साक्षात्प्रत्यक्षमन्नं यद्राजनं साम स्तोमादिभिः शोभ-
मानमन्नवत् प्रीतिकरं भवति, महाव्रतं चान्नत्वेन संस्तुतम् अतस्तत्रैत-
त्प्रयोगार्हमित्यर्थः, अपि चैतत्साम पञ्चविधं भवति महाप्रस्तावादिभ-
क्तीनां प्रत्येकं प्रयोज्यत्वात् पञ्चवारं तथा चैतरेयकोपनिषदि श्रूयते, “प-
ञ्चकृत्वः” प्रस्तौति पञ्चकृत्वोद्गायति पञ्चकृत्वोपद्रवति पञ्चकृत्वो निधन
मुपयन्तीति। यद्वा हुं हुं हुं हुं हुं हो हो हो हो हो इत्यादि पञ्चस्तोभ-
योगात् वागिडासुवोवूहन्द्रा इति पञ्चनिधनयोगाद्वा पाञ्चविध्यम्, अन्नं