सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 165, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 165

पञ्चमाध्याये द्वितीयः खण्डः । १४५
हि पाङ्क्तं पङ्क्तिसम्बद्धम् अश्यं खाद्यं चोष्यं लेह्यं पेयमिति, अतो रा-
जनस्य पञ्चविधत्वात् पञ्चविधान्नरूपत्वम् ॥ ७ ॥
ननु वामदेव्यस्याकरणे तत्कृतं फलन्न स्यादित्यत आह—
हिङ्कारवद्भवति तेन व्वामदेव्यस्य रूपम् ॥ ८ ॥
यदेतत्साम हिङ्कारवद्भवति तेन वामदेव्यस्य रूपमस्मिन् साम्न्य-
न्तर्भूतम् अत एतत्करणेन तत्कार्य्यमपि लभ्यत इत्यर्थः ॥ ८ ॥
नन्वस्यापि पृष्ठस्तोत्रे योग्यता कथमित्यत आह—
निधनवद्भवति तेन पृष्ठस्य रूपम् ॥ ९ ॥
निधनवत्त्वेन प्रतिष्ठितत्वात् इदं साम पृष्ठस्तोत्रमित्यर्थः । अस्य
पञ्च निधनानि पूर्वमेव प्रदर्शितानि ॥ ९ ॥
अथ ब्राह्मणाच्छंसिनः पृष्ठस्तोत्रनिर्वर्त्तकमेकं साम विधत्ते—
अतिच्छन्दःसु पञ्चनिधनं व्वामदेव्यं ब्रह्मसाम का-
र्य्यम् ॥ १० ॥
कयानश्चित्रेत्यस्यामुत्पन्नं 'इह प्रजाऽऽरायस्पोषाय आगन्माम इदं
वामं चराचराय' इत्यादिभिः पञ्चभिर्निधनैरुपेतं वामदेव्यं साम अतिच्छ-
न्दःसु 'त्रिकद्रुकेषु महिषोयवाशिर' इत्यादिषु ब्रह्मसामत्वेन कार्य्यम्॥१०॥
तदेतदतिच्छन्दस्सु गानं स्तौति—
अति वा एषाऽन्यानि च्छन्दाꣳसि यदतिच्छन्दा
अत्येतदन्यान्यहान्यहर्य्यन्महाव्रतम् ॥ ११ ॥
अतिच्छन्दा अतिच्छन्दश्छन्दस्का यत् या ऋक् एषा अन्यानि गा-
यत्र्यादीनि च्छन्दांसि अति वै अतीत्येव वर्त्तते यन्महाव्रताख्यमहः ।
एतदस्यान्यान्यहान्यतिवर्त्तते । अतोऽस्मिन्नहनि अतिच्छन्दःप्रयोगो युक्त
इत्यर्थः ॥ ११ ॥
तत्र विहितं ब्रह्मसाम प्रशंसति—
ब्रह्मसाम्नैव तदन्यान्यहान्यतिमेद्यति ॥ १२ ॥
ततः स्वतएव वृत्तन्महाव्रतमहर्ब्रह्मसाम्नैव तदन्यान्यहान्यतिमेद-
यति आत्मानं वर्द्धयति स्वतो वृद्धमपि पुनः राजनेन साम्ना वर्द्धत
इत्यर्थः ॥ १२ ॥
निधनद्वारेण प्रशंसति—
पञ्चनिधनं भवति पाङ्क्तꣳह्यन्नम् ॥ १३ ॥
पञ्च निधनानि पूर्वं प्रदर्शितानि तद्युक्तमेतत् ब्रह्मसाम भवति अन्न-
१३ ता०