ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 163, कुल 518 में से
संदर्भ में पढ़ेंपञ्चमाध्याये द्वितीयः खण्डः । १४३
यमैन्द्रीषु कार्यं पृष्ठस्तोत्रस्यैन्द्रत्वात् ॥ १८ ॥
अथैतं पक्षं निरस्य पक्षान्तरमाह—
अथो खल्वाहुरातिशयं वै द्विपदां यज्ञायज्ञीयं भ-
द्रमेव कार्यᳪसमृद्ध्यै ॥ १९ ॥
अथो खल्वभिज्ञा ब्रह्मवादिन आहुः चतुष्पदास्त्वृक्षु हि यज्ञायज्ञीयं
गीयते द्विपदां यजमानानां तदतिशयम् अतिशयितमतिरिक्तमिति अतो
भद्रं साम पुच्छतया कार्य्यन्तद्धि द्विपदासु गीयते तथा सति तत्साम
द्विपदां यजमानानां समृद्धयै समृद्धयर्थं भवति ॥ १९ ॥
इति ताण्ड्यमहाब्राह्मणे पञ्चमाध्यायस्य प्रथमः खण्डः ।
अथ द्वितीयः खण्डः ।
महाव्रतस्तोत्रस्य पक्षिरूपेण क्लृप्तस्य शिरःप्रभृतीनांस्तोमा उ-
क्ताः सामानि च विहितानि अथ तस्यैवापरं कल्पं दर्शयति—
वामदेव्यम्महाव्रतं कार्य्यन्तस्य गायत्रᳪशिरो बृह-
द्रथन्तरे पक्षौ यज्ञायज्ञीयं पुच्छम् ॥ १ ॥
यद्यपि पञ्चानां समुदाय एव महाव्रतशब्दवाच्यः वामदेव्यं कयानश्चि-
त्रेत्यस्या मुत्पन्नं साम । अतस्तस्यात्मत्वेन कार्य्यमित्यर्थः, गतमन्यत्॥१॥
यद्यपि पञ्चविधे महाव्रते एकैकस्यां विधायां सहस्रप्रोतत्वं वक्ष्यति
तत्समुदायवेदनमादौ प्रशंसति—
यो वै महाव्रते सहस्रं प्रोतᳪवेद प्रसहस्रं पशूनाप्नोति ॥२॥
शिरःपक्षादिरूपेण पञ्चावयवे महाव्रते सहस्रं प्रोतं सम्बद्धं वेद
जानाति सहस्रं सहस्रसंख्यान् पशूनाप्नोति ॥ २ ॥
तस्य पञ्चावयवाः किमात्मकाः तेषु किं सहस्रं प्रोतमिति तदुभयं
क्रमेण दर्शयति—
तस्य प्राची दिक् शिरस्तच्छन्दोभिः सहस्रमसाव-
न्यतरः पक्षः सनक्षत्रैः साहस्त्रोऽयमन्यतरः पक्षः स
ओषधिभिश्च वनस्पतिभिश्च साहस्त्रोऽन्तरिक्षमात्मा
तद्वयोभिः साहस्त्रं प्रतीची दिक् पुच्छन्तदग्निभिश्च
रश्मिभिश्च साहस्त्रं प्रसहस्रं पशूनाप्नोति य एवं वेद ॥३॥