सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 141, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 141

चतुर्थाध्याये षष्ठः खण्डः । १२१

कीर्त्यसामा । अयं विषुवान् दिवाकीर्त्यसामा कार्य्यः । कानि पुनस्ता-
नि दिवाकीर्त्यानि, भ्राजाभ्राजे इत्यादिना अग्रे वक्ष्यमाणानि ॥ १२ ॥
अथैतद्दिवाकीर्त्यसामत्वं प्रशंसति—
स्वर्भानुर्वा आसुर आदित्यन्तमसाऽविध्यत्तस्य दे-
वा दिवाकीर्त्यैस्तमोऽपाघ्नन्यद्दिवाकीर्त्यानि भवन्ति तम-
एवास्मादपघ्नन्ति रश्मयो वा एत आदित्यस्य यदिवा-
कीर्त्यानि रश्मिभिरेव तदादित्यं साक्षादारभन्ते ॥ १३ ॥
आसुरेण स्वर्भानुना तमसा विद्धस्यादित्यस्य बाधकं तमोऽन्धकारं
देवा दिवाकीर्त्यैः सामभिरपाघ्नन् व्यनाशयन् अतो यद्दिवाकीर्त्यान्य-
स्मिन् भवन्ति तेन तम एवास्मादादित्यादपघ्नन्ति । कथमेषां साम्नां
तमसो हननसामर्थ्यमिति चेत् उच्यते, दिवाकीर्त्यसामानीति यत् ए
ते आदित्यस्य रश्मयो वै रश्मिरूपा एव अत एषां युक्तमेव तमसो ना-
शकत्वं तत्तथा सति रश्मिभिरेवादित्यं साक्षात् प्रत्यक्षमारभन्ते, ये स-
त्रिणो विषुवति दिवाकीर्त्यानि प्रयुञ्जत इत्यर्थः ॥ १३ ॥
दिवाकीर्त्यसामभिस्तमसोऽपहननं सामान्येनोक्तं तदेव विवृणोति—
भ्राजाभ्राजे पवमानमुखे भवतो मुखत एवास्य ता-
भ्यां तमोऽपघ्नन्ति ॥ १४ ॥
पवमानमुखे मध्यन्दिनार्भ्वयोः पवमानयोर्मुखे प्रमुखे भ्राजाभ्राजे
सामनी भवतः । गायत्रस्य नित्यत्वात् ततः परस्तात् क्रमेण भवत इत्य-
र्थः । अस्य प्रत्नामनुद्युतमिति तृचे गातव्यं साम भ्राजं तन्माध्यन्दिने
पवमाने मुखे । परिस्रवानो गिरिष्ठा इत्यस्मिन् यत्साम आभ्राजं तदार्भ-
वपवमानमुखे । यद्यप्यत्र पवमानमुख इति सामान्यसम्बन्धएव दृश्यते
ये गायत्रे ते गायत्रीषूत्तरयोः पवमानयोरिति विशेषावगतेरेवं व्या-
ख्यातं, स्पष्टमन्यत् । अनेन भ्राजाभ्राजयोः साम्नोः स्थाननियमोऽर्था-
दुक्तोभवति ॥ १४ ॥
तथान्येषामपि त्रयाणां साम्नां स्थानविशेषं प्रदर्शयन् पूर्वोक्तं त-
मोऽपहननमेव तत्साध्यं प्रदर्शयति—
महादिवाकीर्त्यञ्च विकर्णञ्च मध्यतो भवतो मध्यत-
एवास्य ताभ्यां तमोऽपघ्नन्ति भासमन्ततो भवति पत्त-
एवास्य तेन तमोऽपघ्नन्ति ॥ १५ ॥
विभ्राड् बृहत्पिबतु सोम्यम्मध्विति तृचे जागते गेयं साम महादिवा-