ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 140, कुल 518 में से
संदर्भ में पढ़ें१२० ताण्ड्यमहाब्राह्मणे
देवतानां देवानां मध्ये वायुरेवैनमादित्यमानशे व्याप्नोति, छन्द-
साम्मध्ये अनुष्टुब्धेनमानशे नान्यच्छन्दः यद्यपि अतो वायव्याया अ-
न्या अन्यदेवत्या प्रतिपत्स्यात् तदा यजमानान् प्रदहेत् ॥ ७ ॥
अथैतां वायव्यां प्रशंसति ।
यन्ति वा एते प्राणादित्याहुर्ये गायत्र्याः प्रति-
पदो यन्तीति यद्वायव्या भवन्ति तेन प्राणान्न यन्ति-
प्राणोहि वायुः ॥ ८ ॥
ये यजमानाः गायत्र्याः प्रतिपदो यन्ति अपगच्छन्ति गायत्रीप्रति-
पदं न प्रयुञ्जते एते प्राणापानव्यानरूपेण गायत्रीसंस्तुतान् प्राणादेव य-
न्त्यपगच्छन्तीति अत एते प्राणविरहात् सद्यएव म्रियेरन् इति ब्रह्म-
वादिन आहुः, तत्रायं परिहारः वायव्या वायुदैवत्या प्रतिपद्भवतीति
यत् तेन प्राणान्न यन्ति नापगच्छन्ति । तत्कुतो हेतोः प्राणो हि वायुर-
तस्तद्देवतया प्राणलाभोयुक्त एवेत्यर्थः ॥ ८ ॥
अथास्या अपरोपि गुणो भवतीत्याह ।
अथो शमयन्त्येवैनमेतया शान्तिर्हि वायुः ॥ ९ ॥
अथो अपिच एनं तपन्तमादित्यं एतया वायव्या शमयन्त्येव वायुः
शान्तिर्हि तापशान्तिकरो भवति ॥ ९ ॥
पवमानस्तोत्रस्य सोमदैवत्यत्वात् वायव्यानुपपन्नेत्याशङ्क्याह—
आयाहि सोमपीतय इति सौमी पावमानी ॥१०॥
वायो शुक्रो अयामित इत्यस्यामृचि अनेन तृतीयपादेन सोमकीर्त्त-
नात् सोम एव पवमानो भवति । एषा सौमी पावमानी च भवति अत
उपपन्नैषा पवमानस्तोत्रे ॥ १० ॥
तथैषा शान्तिहेतुश्चेति प्रशंसति—
नियुत्वती भवति पशवो वै नियुतः शान्तिः पशवः
शान्तेनैव तदादित्यमुपयन्ति ॥ ११ ॥
स्पार्हो देव नियुत्वतेति नियुच्छब्दोऽस्यां दृश्यते, नियुतश्च वायवो-
हि वडवास्ताश्च पशवः पशवश्च शान्तिरूपाः एवञ्च नियुत्वती एषा प्र-
तिपद्भवतीति यत् तेन शान्तेनैवानुष्ठानेन आदित्यप्रदाहाय ॥११॥
अथास्मिन्नहनि सामानि विधत्ते—
दिवाकीर्त्यसामा भवति ॥ १२ ॥
दिवाकीर्त्यानि शुक्रियाणि सामानि अस्मिन् प्रयुञ्जन्त इति दिवा-