ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 142, कुल 518 में से
संदर्भ में पढ़ें१३२ : ताण्ड्यमहाब्राह्मणे
कीर्त्यं । इन्द्र क्रतुन्न आभरेति प्रगाथे गेयं विकर्णम् । एते सामनी मध्य-
तोऽस्य विषुवतो मध्ये पृष्ठस्तोत्रेषु भवतः । महादिवाकीर्त्यं होतृसाम
इतरद् ब्रह्मसाम । तथाच तैत्तिरीयकं, महादिवाकीर्त्यं होतुः पृष्ठं विकर्णं
ब्रह्मसामेति । एवं सति ताभ्यामस्यादित्यस्य मध्यतो मध्यदेशात् एव
तमो विनाशयन्ति । तथा अन्ततोऽन्तेऽवसाने भासमग्निष्टोमसाम कार्य्यम्
प्रत्यक्षस्येत्यस्यामृच्युत्पन्नं दशस्तोभं साम भासं तन्मूर्द्धानम् इति
तृचेऽत्र गातव्यम् । तेनान्ततः क्रियमाणेनैव भासेन पत्तः पादप्रदेशादेव
तमोऽपघ्नन्ति ॥ १५ ॥
आग्निष्टोमसामत्वेन विहितं भासं प्रशंसति—
दशस्तोभं भवति दशाक्षरा विवराड् विवराज्येव प्र-
तितिष्ठन्ति ॥ १६ ॥
इदं भासं दशस्तोभं भवति आद्यन्तयोः प्रयुज्यमाना हाउहावादयो
भासान्ता दशस्तोभास्तैर्युक्तमेतत् । विराट् दशाक्षरा सा चान्नरूपा
“अन्नं वै विवराडि”ति श्रुतेः । तथा सति दशस्तोभेन साम्ना विराज्येव
सत्रिणः प्रतिष्ठिता भवन्ति ॥ १६ ॥
भासस्य स्तोत्रियद्वारेण स्तुतिं चिकीर्षुः कञ्चित्प्रश्नमुपक्षिपति—
यद्वित्याहुः षड्भिरितो मासैरध्वानं यन्ति षड्भिः
पुनरायन्ति क्व तर्हि स्वर्गोलोको यस्य कामाय सत्रमा-
सत इति ॥ १७ ॥
इतोऽस्माल्लोकात् षड्भिः पूर्वपक्षसि भवैर्मासैः अध्वानमेव यन्ति
स्वर्गप्राप्तिसाधनमार्गमेव यन्ति । पुनरुत्तरपक्षैः षड्भिः मासैरायन्ति
इममेव लोकं प्रत्यागच्छन्ति । तर्हि तथा सति स्वर्गोलोकः क्व भवति ?
यस्य स्वर्गस्य कामाय काममाप्तुम् इमे यजमानाः सत्रमासत इति यत्तु
यत् खल्वाहुः कथयन्ति ब्रह्मवादिनः ॥ १७ ॥
तत्रेदमुत्तरमाह—
मूर्द्धानन्दिव इति स्वर्गे लोकमारेभन्ते ॥ १८ ॥
विषुवतोऽग्निष्टोमसाम्नि मूर्द्धानन्दिव इति स्वर्गलोकवाचकशब्दप्र-
योगात् प्रयोगफलभूतं स्वर्गे लोकमारेभन्ते प्राप्नुवन्ति ॥ १८ ॥
तर्हि व्याप्तत्वात् सत्रावसानएव म्रियेरन् तत्राह—
अरतिं पृथिव्या इत्यस्मिँल्लोके प्रतितिष्ठन्ति ॥ १९ ॥
अत्र पृथिव्या इति कीर्त्तनात् एषामस्मिँल्लोके प्रतिष्ठा भवतीत्यर्थः॥१९॥