ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 139, कुल 518 में से
संदर्भ में पढ़ेंचतुर्थाध्याये षष्ठः खण्डः । ११९
अथ तस्मिन्नहनि स्तोमं विधत्ते ।
एकविꣳशो भवत्येकविꣳशो वा अस्य भुवनस्या-
दित्य आदित्यलोकमेव तदभ्यारोहन्ति ॥ ३ ॥
तस्मिन्नहनि सर्व्वेषु स्तोत्रेष्वेकविंश एव स्तोमो भवति । अस्य
भुवनस्य लोकस्य आदित्य एकविंशो वै अत आदित्यात्मकस्य विषु-
वत एकविंशस्तोमत्वमुचितं एकविंशस्तोममुपयन्तीति यत् तेन
आदित्यलोकमेवाभ्यारोहन्ति ॥ ३ ॥
कथमादित्यस्यैतल्लोकापेक्षयैकविंशत्वमिति तत् दर्शयति ।
द्वादशमासाः पञ्चर्त्तवस्त्रय इमे लोका असावादित्य
एकविꣳशः ॥ ४ ॥
हेमन्तशिशिरयोः समासेनैकत्वात् ऋतूनां पञ्चसंख्या ॥ ४ ॥
एकविंशस्तोमप्रयुक्तं फलं दर्शयति ।
मध्यत एव यज्ञस्य प्रतितिष्ठन्ति ॥ ५ ॥
एकविंशो वै स्तोमानां प्रतिष्ठा अतो यज्ञस्य संवत्सरसत्रस्य
मध्यतोमध्य एवास्मिंल्लोके प्रतितिष्ठन्ति यद्वा द्वादशमासाइत्यादिना
ये अनुक्रान्ता एषु सर्व्वेषु प्रतितिष्ठन्ति, तथाच शाख्यायनकं, एकवि-
ꣳशो विषुवान् भवति एकविꣳशो वा अस्य भुवनस्य विषुवान् द्वाद-
शमासाः पञ्चर्त्तवस्त्रय इमे लोका असावादित्य एकविꣳशः सर्व्वस्मि-
न्वा एषोऽतिप्रतिष्ठितः यद्यस्मिन्नेष सर्व्वस्मिन्नधिप्रतितिष्ठन्तीति तस्मिन्
सर्व्वस्मिन्नधिप्रतिष्ठामेति ॥ ५ ॥
अस्मिन्नहनि बहिष्पवमानस्य प्रतिपदं विधत्ते ।
वायो शुक्रो अयामिति शुक्रवती प्रतिपद्भव-
त्यादित्यस्य रूपं ॥ ६ ॥
प्रतिपदिति प्रथमस्तृच उच्यते अयन्तृचो विषुवति बहिष्पवमान-
स्य प्रतिपद्भवति प्रतिपच्छब्दस्य स्त्रीलिङ्गत्वात् शुक्रवती स्त्रीलिङ्गता
भास्वरवाचकशुक्रशब्दोपेतत्वात् एष आदित्यस्य रूपं आदित्यात्मक-
स्य विषुवतोऽनुरूपं ॥ ६ ॥
ननु सर्व्वेष्वहःसु पावमान्या गायत्र्या हि प्रतिपदा भाव्यं, तत्र
कस्माद्वायवित्यनुष्टुप् विधीयत इति तत्राह ।
वायुर्व्वा एतद्देवतानामानशेऽनुष्टुप् छन्दसां यद्-
तोऽन्या प्रतिपत् स्यात्प्रदहेत् ॥ ७ ॥