तैत्तिरीयोपनिषद् (शाङ्करभाष्य सहित)
Taittiriya Upanishad with Shankara Bhashya
आदि शङ्कराचार्य द्वारा
स्रोत: Gita Press Gorakhpur · Gita Press, Gorakhpur (उद्गम)
पृष्ठ 76, कुल 261 में से
संदर्भ में पढ़ें७० तैत्तिरीयोपनिषद् [ वल्ली १
दीनां पूर्वत्रोपदेश आनर्थक्य- | जो ऋतादिका उपदेश किया है वह
परिहारार्थः । इह तु ज्ञानोत्पत्त्य- | उनके आनर्थक्यकी निवृत्तिके लिये
है । तथा यहाँ ज्ञानकी उत्पत्तिके
र्थत्वात्कर्तव्यतानियमार्थः । | हेतु होनेसे उनकी कर्तव्यताका
नियम करनेके लिये है ।
वेदमनूच्याचार्योऽन्तेवासिनमनुशास्ति । सत्यं वद ।
धर्मं चर । स्वाध्यायान्मा प्रमदः । आचार्याय प्रियं धन-
माहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः। सत्यान्न प्रमदितव्यम् ।
धर्मान्न प्रमदितव्यम् । कुशलान्न प्रमदितव्यम् । भूत्यै न
प्रमदितव्यम् । स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् ॥१॥
देवपितृकार्याभ्यां न प्रमदितव्यम् । मातृदेवो
भव । पितृदेवो भव । आचार्यदेवो भव । अतिथिदेवो भव ।
यान्यनवद्यानि कर्माणि । तानि सेवितव्यानि । नो इतराणि ।
यान्यस्माकँसुचरितानि । तानि त्वयोपास्यानि ॥ २ ॥
नो इतराणि । ये के चास्मच्छ्रेयांसो ब्राह्मणाः ।
तेषां त्वयासनेन प्रश्वसितव्यम् । श्रद्धया देयम् ।
अश्रद्धयाऽदेयम् । श्रिया देयम् । ह्रिया देयम् । भिया
देयम् । संविदा देयम् । अथ यदि ते कर्मविचिकित्सा वा
वृत्तविचिकित्सा वा स्यात् ॥ ३ ॥
ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः ।
अलूक्षा धर्मकामाः स्युः । यथा ते तत्र वर्तेरन् । तथा
तत्र वर्तेथाः । अथाभ्याख्यातेषु । ये तत्र ब्राह्मणाः
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri