सामग्री पर जाएँ
सर्वकोश
तैत्तिरीयोपनिषद् (शाङ्करभाष्य सहित)

तैत्तिरीयोपनिषद् (शाङ्करभाष्य सहित)

Taittiriya Upanishad with Shankara Bhashya

आदि शङ्कराचार्य द्वारा

स्रोत: Gita Press Gorakhpur · Gita Press, Gorakhpur (उद्गम)

DevanagariSanskritpublished261 पृष्ठ

पृष्ठ 188, कुल 261 में से

संदर्भ में पढ़ें
पृष्ठ 188

अष्टम अनुवाक
ब्रह्मानन्दके निरतिशयत्वकी मीमांसा
भीषास्माद्वा॒तः पवते । भीषोदे॒ति सूर्यः॑ । भीषास्मा॒-
द॒ग्निश्चेन्द्र॑श्च । मृत्युर्धावति पञ्चम इति । सैषानन्दस्य
मीमाꣳसा भवति । युवा स्यात्साधुयु॒वाध्या॑यक आशिष्ठो
द्रढिष्ठो बलिष्ठस्तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात् ।
स एको मानुष आनन्दः । ते ये शतं मानुषा आनन्दाः ॥ १ ॥
स एको मनुष्यगन्धर्वाणामानन्दः । श्रोत्रियस्य
चाकामहतस्य । ते ये शतं मनुष्यगन्धर्वाणामानन्दाः ।
स एको देवगन्धर्वाणामानन्दः । श्रोत्रियस्य चाकामह-
तस्य । ते ये शतं देवगन्धर्वाणामानन्दाः । स एकः पितॄणां
चिरलोकलोकानामानन्दः । श्रोत्रियस्य चाकामहतस्य ।
ते ये शतं पितॄणां चिरलोकलोकानामानन्दाः । स एक
आजानजानां देवानामानन्दः ॥ २ ॥
श्रोत्रियस्य चाकामहतस्य । ते ये शतमाजानजानां
देवानामानन्दाः । स एकः कर्मदे॒वानां॑ देवानामानन्दः ।
ये कर्म॑णा दे॒वानपि॒यन्ति॑ । श्रोत्रियस्य चाकामहतस्य ।
ते ये शतं कर्मदे॒वानां॑ देवानामानन्दाः । स एको देवा-
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri