तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
ब्राह्मणोऽष्टाविंशो नक्षत्रम् । यथा नक्षत्रयोगात्कालस्य कर्मयोग्यतैवं
२३२ (१.५.३) तैत्तिरीयब्राह्मणम्
लनधम्मिल्लबन्धननयनाञ्जनादिभिः शृङ्गारं कुर्वन्ति ।
सौभाग्यदेवतायास्तत्कालस्वामित्वेन तदेतदुचितम् ।
अथ चतुर्थपञ्चमभागयोः संधिं निन्दति-
यत्प्र॑ती॒चीन॑मपरा॒ह्णात् । प्रा॒चीन॑'५ सा॒यात् । ततो॑ दे॒वा
अति॑रा॒त्रं निर॑मिमत । तत्तदार्तवीर्यं॒ निर्माग॑ः, इति ।
पञ्चमभागं प्रशंसति-
वरु॑णस्य सा॒यम् । तत्पुण्य॑न् तेज॒स्यह॑ः । तस्मा॑त्त॒र्हि नानृ॑तं
वदेत् (३), इति ॥
वरुणस्योग्रदेवतात्वात्तस्मिन्पुण्यकालेऽनृतवादिनं वरुणो बाधते ।
अत एवान्यत्र श्रूयते--"अनृते खलु वै क्रियमाणे वरुणो गृह्णाति" इति ।
तस्मात्तस्मिन्कालेऽतिप्रयत्नादनृतं वर्जयेत् ।
उत्तमाधमकालविभागज्ञानं प्रशंसति-
ब्रा॒ह्म॒णो वा अ॑ष्टाविं॒शो नक्ष॑त्राणाम् । समा॒नस्या॒ह्नः पञ्च॑
पुण्या॑नि॒ नक्ष॑त्राणि । च॒त्वार्य॑श्ली॒लानि॑ । तानि॒ नव॑ ।
यच्च॑ प॒रस्ता॒न्नक्ष॑त्राणां॒ यच्चा॒वस्ता॑त् । ता॒न्येका॑दश ।
ब्रा॒ह्म॒णो द्वाद॑शः । य एवं वि॒द्वान्सं॑वत्स॒रं व्र॒तं चर॑ति ।
सं॒व॒त्स॒रेणै॒वास्य॑ व्र॒तं गुप्तं भ॑वति, इति ।
कृत्तिकादीनि भरण्यान्तानि सप्तविंशतिर्नक्षत्राणि तदपेक्षया
ब्राह्मणोऽष्टाविंशो नक्षत्रम् । यथा नक्षत्रयोगात्कालस्य कर्मयोग्यतैवं
ब्राह्मणवचनादपि कालः कर्मयोग्यो भवति । अत एव शिष्टाः कर्मारम्भेषु
पुण्याहं वाचयन्ति । संवत्सरसंपादनेन प्रशंसति । एकस्याह्नः प्राप्ताः
प्रातः संगवादयः पञ्च भागा नक्षत्रांशोपेतत्वात्पञ्च नक्षत्राणि । तानि च
पूर्वोक्तरीत्या प्रशस्तत्वात्पुण्यानि । यानि च संधिरूपाणि
तान्यग्निष्टोमाद्युत्पादनेन निःसारत्वादश्लीलानि निन्दितानि । एवं
पुण्यान्यश्लीलानि च मिलित्वा नवसंख्याकानि । यच्च नक्षत्रांशयुक्तेन
नक्षत्राणामेतेषां नवसंख्याकानां परस्तादुपरि प्रदोषकालरूपं
यच्चाधस्तादुषःकालरूपं ताभ्यां द्वाभ्यां सह तान्येकादश संपद्यन्ते
तदपेक्षया वचनेन पुण्याहत्वसंपादको ब्राह्मणो द्वादशः ।
तैत्तिरीयब्राह्मणम् (१.५.४) २३३
एवमेते कालविशेषा द्वादशमासत्वेन भाविताः
संवत्सरतामापद्यन्ते । एवमनेन प्रकारेण यो विद्वान्
संवत्सरत्वसंपादनेनैकस्मिन्दिने व्रतं कर्मविशेषमाचरति तस्य तद् व्रतं
प्रसिद्धेनेव संवत्सरेण गुप्तं भवति । संवत्सरानुष्ठानेन यावत्फलं
तावदाप्नोतीत्यर्थः ।
अथ प्रकारान्तरेण तदभिधत्ते-
स॒मा॒नस्याह्नः॑ प॒ञ्च पु॒ण्या॑नि॒ नक्ष॑त्राणि । च॒त्वा-
र्य॑श्ली॒लानि॑ । ता॒नि॒ नव॑ । आ॒ग्ने॒यी रात्रिः॑ । ऐ॒न्द्रमहः॑ ।
तान्येका॑दश । आ॒दि॒त्यो द्वाद॑शः । य एवं वि॒द्वान्सं॑वत्स॒रं
व्र॒तं चर॑ति । सं॒व॒त्स॒रेणै॑वास्य व्र॒तं गुप्तं भव॑ति । (४),
इति ।
सृङ्ग्वां१॑षोडशिन॒ निर॑मिमीत॒ तत्तदार्त्तवीर्यं॑ मिर्मागाँ॑ वदे॒न्द्रवति
स॒मा॒नस्याह्नः॑ प॒ञ्च पु॒ण्या॑नि॒ नक्ष॑त्राण्य॒ष्टौ च॑ ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
पञ्चमाध्याये तृतीयोऽनुवाकः ॥ ३ ॥
पूर्वं प्रदोषकालोषः काल ब्राह्मणेद्वादशसंख्या पूरिता । इदानीं
तत्तत्रयं परित्यज्याग्निदेवताकां रात्रिमिन्द्रदेवताकमहरान्दियं च
तत्तत्रयस्थाने निवेश्यानुसंधानमुच्यत इति विशेषः।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
पञ्चमप्रपाठके तृतीयोऽनुवाकः ॥ ३ ॥
अथ पञ्चमप्रपाठके चतुर्थोऽनुवाकः ।
तृतीये हेयोपादेयकालविभागो निरूपितः । स च
ऋतुविशेषसंबन्धाभावात्पुरुषार्थः । अतः सामान्येन सर्वकर्मसु संबध्यत ।
चतुर्थे सोमविषये विशेषोऽभिधीयते । यदुक्तं पूर्वप्रपाठके-"यद्दारुमयाणि
पात्राणि भवन्ति" इति । तदेतत्प्रशंसति-
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । कति॒ पात्रा॑णि य॒ज्ञं वह॑न्तीति॑ ।
त्रयो॑द॒शेति॑ ब्रूयात् ॥ स यद्ब्रू॒यात् । कस्तानि॒
निर॑मिमीतेति॑ । प्र॒जाप॑ति॒रिति॑ ब्रूयात् । स यद् ब्रू॒यात् ।
कु॒त॒स्तानि॒ निर॑मिमीतेति॑ । आ॒त्मन॒ इति॑ ।
प्रा॒णा॒पा॒नाभ्या॑मे॒वोपाँ॒श्वन्तर्या॒मौ निर॑मिमीत (१) ।
व्या॒नादु॑पाँशुसव॑नम् । वाच॒ ऐन्द्र॑वाय॒वम् । द॒क्ष॑क्रतुभ्यां
मैत्रावरुणम् । श्रोत्रा॑दाश्वि॒नम् । चक्षु॑षः शुक्रा॒म॒न्थिनौ॑ ।
आ॒त्मन॑ आग्रय॒णम् ।। अङ्गे᳚भ्य उ॒क्थ्य॑म् । आयु॑षो ध्रु॒वम् ।
प्र॒ति॒ष्ठायां॑ ऋतुपा॒त्रे, इति॑ ।
सोमग्रहणसाधनत्वेन यज्ञनिर्वाहकाणां पात्राणां संख्याविशेषों
निर्मातृविशेषो निर्माणसाधनं चेति त्रयं ब्रह्मवादिनां प्रश्नेनाभिज्ञपुरुषोत्तरेण
च निर्णीतम् । प्रजापतिः स्वशरीरान्निरमिमीतेति । सामान्येनोक्तस्य
प्राणापानाभ्यामित्यादिना विशेषः कथितः । तत्र प्राणवायोरुपांशुपात्रं
निर्मितम् । अपानवायोरन्तर्यामपात्रम् । व्यानवायोरुपांशुसवनाख्यः
पाषाणः वागिन्द्रियादैन्द्रवायवपात्रम् । दक्ष उत्साहः । क्रतुः संकल्पः
ताभ्यां मैत्रावरुणपात्रम् । श्रोत्रादाश्विनपात्रम् ।
चक्षुरिन्द्रियाच्छुक्रामन्थिपात्रद्वयम् । आत्मनो मध्यशरीरादाग्रयणपात्रम् ।
अङ्गेभ्यो हस्तपादादिभ्य उक्थपात्रम् । स्वकीयादायुष्याद्दार्ढ्यध्रुवपात्रम् ।
प्रतिष्ठाहेतुभ्यां पादाभ्यामृतुपात्रद्वयम् । प्रजापतेः सत्यं संकल्पत्वा
दिंदमेतस्माज्जायतामिति संकल्पमात्रेण तथैव जायते । यस्मादत्र
प्राणादिभ्य एतानि निष्पन्नानि तस्मात्तत्तन्मन्त्रेष्वनेनैव क्रमेण प्राणादय एव
दृश्यन्ते । तथा च ग्रहाभिवीक्षणमन्त्रा एवमाम्नायन्ते-"प्राणाय मे वर्चोदा
वर्चसे पवस्वापानाय व्यानाय वाचे दक्षक्रतुभ्याम्" इत्याद्याः।
सवनीयपुरोडाशान्प्रशंसति-
य॒ज्ञं वाव तं प्र॒जाप॑ति॒र्निर॑मिमीत । स निर्मि॑तो नाध्रियत॒
सम॑व्लीयत । स ए॒तान्प्र॒जाप॑तिर्पिवा॒पान॑पश्यत् ।
तान्निर्व॑पत् तैर्वे स य॒ज्ञमप्य॑वपत् । यद॑पिवा॒पा भव॑न्ति ।
य॒ज्ञस्य॒ धृत्यै॒ असं॑व्लयाय (२), इति॑ ।
उपाँ॒श्वन्त॑र्या॒मौ निर॑मिमीतामिमीत॒ षट् च॑ ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
पञ्चमाध्याये चतुर्थोऽनुवाकः ॥ ४ ॥
यथोक्तग्रहपात्रसाध्यः प्रजापतिनिर्मितः स सोमयज्ञो दृढो नाभवत्,
किंतु विशीर्णोऽभूत् । अतस्तद्दार्यहेतूनपिवापान्सवनीयपुरोडाशान्दृष्ट्वा
तन्निर्वापेण तं यज्ञमप्यवपद् दृढीचकार । अतोऽन्यस्यापि तन्निर्वापो