तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
ब्राह्मणाच्छँ॑ सिन॑श्च सादयति । आ॒ग्ने॒यो वै होता॑ ।
तैत्तिरीयब्राह्मणम् (१.७.६) २९३
षोड॒शभि॑र्गृह्णाति । षोड॑शकलो॒ वै पुरु॑षः यावा॑ने॒व
पुरु॑षः । तस्मि॑न्वी॒र्यं॑ दधाति । षोड॒शभि॑र्जुहोति॒
षोड॒शभि॑र्गृह्णाति । द्वात्रि॑ँश॒त्संप॑द्यन्ते । द्वात्रि॑ँ
शदक्षराऽनु॒ष्टुप् । वाग॑नु॒ष्टुप् सर्वा॑णि॒ च्छन्दाँ॑सि ।
वा॒चैवैनँ॒ सर्वै॑भिश्छन्दो॑भि र॒भिषि॑ञ्चति (५) ।
ऊर्मिरित्या॑ह सूर्य॑वचसः स्थेत्या॑ह ब्रह्मवर्च॒स्य॑कस्ते॑ज॒स्याः
स्थेत्या॑हैव पुरु॑षः षट् च॑ ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
सप्तमाध्याये पञ्चमोऽनुवाकः ॥ ५ ॥
अथ सप्तमप्रपाठके षष्ठोऽनुवाकः ।
देवी॑राप॒ः सं मधु॑मती॒र्मधु॑मतीभिः सृज्यध्व॒मित्या॑ह ।
ब्रह्म॑णै॒वैनाः॒ सं सृ॑जति । अना॑धृष्टाः सीद॒तेत्या॑ह ।
ब्रह्म॑णै॒वैना॑ः सादयति । अ॒न्तरा होतृ॑श्च धिष्ण्यं॑
ब्राह्मणाच्छँ॑ सिन॑श्च सादयति । आ॒ग्ने॒यो वै होता॑ ।
ऐन्द्रो ब्राह्मणाच्छँ॑ सी तेज॑सा चैवेन्द्रि॒येण॑ चोभयतो॑ रा॒ष्ट्रं
परि॑गृह्णाति । हिर॑ण्येन॒ोत्पु॑नाति । आहु॑त्यै॒ हि
प॒वित्रा॑भ्यामु॒त्पुन॑न्ति । व्यावृत्यै (१) । श॒तमा॑नं भवति ।
श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति ।
अनि॑भृष्टमसीत्या॑ह । अनि॑भृष्टँ ह्यैतत्॑ । वा॒चो
बन्धु॑रित्या॑ह । वा॒चो ह्यैष बन्धु॑ः । त॒पोजा इत्या॑ह । त॒पोजा
ह्यैतत्॑ । सोम॑स्य दा॒त्रमसीत्या॑ह (२) । सोम॑स्य॒ ह्यैतद्दात्रम्॑ ।
शुक्रा व॑ः शुक्रेणोत्पु॑नामीत्या॑ह । शुक्रा ह्याप॑ः । शुक्रँ॑
हिर॑ण्यम् । चन्द्राश्चन्द्रेणेत्या॑ह । चन्द्रा ह्याप॑ः । चन्द्रँ॑
हिर॑ण्यम् । अमृता॑ अ॒मृते॒नेत्या॑ह । अ॒मृता॒ ह्याप॑ः । अ॒मृतँ॑
हिर॑ण्यम् (३) स्वाहा॑ राजसूया॑येत्या॑ह । रा॒ज॒सूया॑य ह्यैना
उत्पु॑नाति॑ । स॒ध्रुमादौ॑ द्यु॒म्नि नीरुज॑ ए॒ता इति॑ वारु॒ण्यर्चा॑
२९४ (१.७.६) तैत्तिरीयब्राह्मणम्
गृह्णा॑ति । व॒रु॒ण॒स॒वमे॒वाव॑रुन्धे । एक॑या गृह्णाति । एक॑धैव
यज॑माने वी॒र्यं॑ दधाति । क्ष॒त्रस्योल्ब॑मसि क्ष॒त्रस्य॑
योनि॑रसीति॑ ता॒र्प्यं चोष्णीषं॑ च॒ प्रय॑च्छति सयोनित्वा॒य॑ ।
एक॑शतेन दर्भपुञ्जी॒लैः पव॑यति । श॒तायु॒र्वे पुरु॑षः
श॒तवी॑र्यः । आ॒त्मैक॑शतः (४) यावा॑ने॒व पुरु॑षः ।
तस्मि॑न्वी॒र्यं दधाति । दध्या॑शयति । इ॒न्द्रि॒यमे॒वाव॑रुन्धे ।
उ॒दुम्बर॑माशयति । अन्नाद्य॒स्याव॑रुद्ध्यै ।
शष्पा॑ण्याशयति । सुरा॑बलिमे॒वैनं॑ करोति । आ॒विदे॑ ए॒ता
भ॑वन्ति । आ॒विद॑मे॒वैनं॑ गमयन्ति (५) । अ॒ग्निरे॒वैनं॑
गार्ह॑पत्येनावति । इन्द्र॑ इन्द्रि॒येण॑ । पू॒षा प॒शुभि॑: ।
मि॒त्रावरु॑णौ प्राणापा॒नाभ्या॑म् । इन्द्रो॑ वृ॒त्राय॑
वज्र॒मुद॑यच्छत् । स दिव॑समलिखत् । सौ॒र्य॒म्णः पन्था॑
अभवत् । स आर्विन्ने॒ द्यावा॑पृथि॒वी धृत॑व्र॒ते इति॑
द्यावा॑पृथि॒वी उपा॑धावत् । स आ॒भ्यामे॒व प्रसू॑त॒ इन्द्रो॑
वृ॒त्राय॒ वज्रं॒ प्राह॑रत् । आर्विन्ने॒ द्यावा॑पृथि॒वी धृत॑व्र॒ते इति॒
यदाह॑ (६) । आ॒भ्यामे॒व प्रसू॑तो यज॑मानो॒ वज्रं॒ भ्रातृ॑व्याय॒
प्रह॑रति । आर्विन्ना दे॒व्यादि॑तिर्वि॒श्वरू॑पीत्याह । इ॒यं वै
दैव्यादि॑तिर्वि॒श्वरू॑पी । अ॒स्यामे॒व प्रति॑तिष्ठति ।
आ॒विन्नो॒ऽयम॒सावा॑मुष्या॒यणो॒ऽस्यां विश्य॑स्मिन्न॒राष्ट्र
इत्या॑ह । विशै॒वैनं॑ ꣳ 'रा॒ष्ट्रेण॒ समर्धयति । म॒हते क्ष॒त्राय॑
म॒हते आधि॑पत्याय म॒हते॑ जान॑राज्या॒येत्या॑ह ।
आ॒शिष॑मे॒वैतामाशा॑स्ते । ए॒ष वो॑ भरतो॒ राजा॒ सोमो॒ऽस्माकं॑
ब्राह्म॒णाना॑ ꣳ राजेत्या॑ह । तस्मा॒त्सोम॑राजानो ब्राह्म॒णाः
(७) । इन्द्र॑स्य॒ वज्रो॑ऽसि वार्त्र॒घ्न इति॒ धनुः॒ प्रय॑च्छति॒
विजि॑त्यै । श॒त्रुबाध॑नाः स्थेतीषून्॑ । श॒त्रूने॒वास्य॑ बाधन्ते ।
वा॒त॒ मा प्रत्य॒ञ्चं पा॑त॒ मा ति॒र्यञ्च॒मन्व॑ञ्चं मा पा॒ते त्या॑ह ।
तैत्तिरीयब्राह्मणम् (१.७.७) २९५
तिस्रो॒ वै श॑र॒व्या॑: । प्र॒तीची॑स्ति॒रश्च्यूनूची॑: । ताभ्य॑ ए॒वैनं॑
पा॒न्ति॒ । दिग्भ्यो॒ मा पा॒तेत्या॑ह । दिग्भ्य॑ ए॒वैनं॑ पा॒न्ति॒ ।
विश्वा॑भ्यो मा ना॒ष्ट्राभ्य॑: पा॒तेत्या॑ह । अप॑रिमितादे॒वैनं॑
पा॒न्ति॒ । हिर॑ण्यवर्णावु॒षसां॑ वि॒रोक॒ इति॑ त्रि॒ष्टुभा॑ बा॒हू
उद्गृ॑ह्णाति । इ॒न्द्रियं॒ वै वी॒र्यं॑ त्रि॒ष्टुक् । इ॒न्द्रि॒यमे॒व
वी॒र्य॑मु॒परिष्टा॑दा॒त्मन्ध॑त्ते (८)॥
व्यावृ॑त्यै दात्रमसीत्या॑हा॒मृतं॑ हिर॑ण्यमेकशतो गमयन्त्याह॑ ब्राह्मणा
ना॒ष्ट्राभ्य॑: पा॒तेत्या॑ह च॒त्वारि॑ च ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
सप्तमाध्याये षष्ठोऽनुवाकः ॥ ६ ॥
अथ सप्तमप्रपाठके सप्तमोऽनुवाकः ।
दिशो॒ व्यास्था॑पयति । दि॒शाम॒भिजित्यै॑ । यद॑मु॒प्रका॑मेत् ।
अ॒भिदि॒शौ ज॑येत् । उत्तु मा॑द्येत् । मन॑सा॒नुप्रक्रा॑मति ।
अ॒भिदि॒शौ ज॑यति । नोन्मा॑द्यति । स॒मिध॒माति॑ष्ठेत्याह ।
तेज॑ ए॒वाव॑रुन्धे (१) । उ॒ग्रा मा ति॑ष्ठेत्याह ।
इ॒न्द्रि॒यमे॒वाव॑रुन्धे । वि॒राज् मा ति॑ष्ठेत्याह ।
अन्नाद्य॑मे॒वाव॑रुन्धे । उदी॑ची॒ मा ति॑ष्ठेत्याह ।
प॒शूने॒वाव॑रुन्धे । ऊ॒र्ध्वा मा ति॑ष्ठेत्याह । सु॒वर्ग॑मे॒व
लो॒कम॒भिज॑यति । अनू॒र्जिही॑ते सु॒वर्ग॑स्य लो॒कस्य॒ सम॑ष्ट्यै
(२) मारु॒त ए॒ष भ॑वति । अन्नं॒ वै म॒रुतः॑ । अन्न॑-
मे॒वाव॑रुन्धे । एक॑वि ँशतिकपालो भवति॒ प्रति॑ष्ठित्यै ।
योऽर॑ण्येऽनुवा॒क्यो॑ ग॒णः । तं म॑ध्य॒त उप॑दधाति । ग्रा॒म्यैरे॒व
प॒शुभि॑रार॒ण्यान्प॒शून्परि॑गृह्णाति । तस्मा॑द् ग्रा॒म्यैः॑
प॒शुभि॑रार॒ण्याः प॒शवः॒ परि॑गृहीताः । पृ॒थिवै॒न्यः॑ ।
अ॒भ्य॑षिच्यत (३) स रा॒ष्ट्रं नाभ॑वत् । स ए॒तानि॑
पा॒र्था॒न्य॑पश्यत् । ता॒न्य॑जुहोत् । तैर्वै स रा॒ष्ट्रम॑भवत् ।
२९६ (१.७.८) तैत्तिरीयब्राह्मणम्
यत्पा॒र्थानि॑ जु॒होति॑ । रा॒ष्ट्रमे॑व भव॑ति । बा॒र्हस्प॒त्यं पूर्वे॑-
षामुत्त॒मं भव॑ति । ऐ॒न्द्रमुत्त॑रि॒षां प्रथ॒मम् । ब्रह्म॑ चै॒वास्मै॑ क्ष॒त्रं
च॑ स॒मीची॑ दधाति । अथो॒ ब्रह्म॑न्ने॒व क्ष॒त्रं प्रति॑ष्ठापयति
(४) । षट् पु॒रस्ता॑दभिषे॒कस्य॑ जु॒होति॑ । षडु॑प॒रिष्टा॑त् ।
द्वाद॑श संप॑द्यन्ते । द्वाद॑श॒ मासा॑: संवत्स॒रः । संवत्स॒रः
खलु॒ वै दे॒वानां॒ पूः । दे॒वाना॑मे॒व पुरं॒ मध्य॑तो॒ व्यर्व॑सर्पति ।
तस्य॒ न कुत॑श्च॒नोप॑व्याधो भव॑ति । भू॒ताना॑मे॒वैष्टी॑र्जु॒होति॑ ।
अत्रा॑त्र॒ वै मृ॒त्युर्जाय॑ते । यत्र॑ य॒त्रैव मृ॒त्युर्जाय॑ते । तत॑
ए॒वैन॒मव॑यजते । तस्मा॑द्राजसूये॑नेजा॒नः । सर्व॒मायु॑रेति ।
सर्वे॒ ह्य॑स्य मृ॒त्यवो॒ऽवैर॑ष्टाः । तस्मा॑द्राजसूये॑नेजा॒नो
नाभि॑चरि॒तवै॒ प्रत्य॑गैनमभि॒चार॑: स्तृणुते (५) ।
रु॒न्धे॒ स॒म॑र्ष्ट्या असिच्यत स्थापयति जायते पञ्च च ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
सप्तमाध्याये सप्तमोऽनुवाकः ॥ ७ ॥
अथ सप्तमप्रपाठकेऽष्टमोऽनुवाकः ।
सोम॑स्य॒ त्विषि॑रसि॒ तवै॑व मे॒ त्विषि॑र्भूया॒दिति॑ शार्दूलच॒-
र्मोप॑स्तृणाति । यैव सोमे॒ त्विषि॑ः । या शार्दूले । तामे॒वा
व॑रुन्धे । मृ॒त्योर्वा ए॒ष वर्ण॑: । यच्छार्दू॒लः । अ॒मृतं॒ ँ
हिर॑ण्यम् । अ॒मृत॑मसि मृ॒त्योर्मा॑ पा॒हीति॑
हिर॑ण्यमु॒पास्य॑ति । अ॒मृत॑मेव मृ॒त्योरन्त॑र्धत्ते । श॒तमा॑नं
भवति । (१) । श॒तायु॑: पुरु॑षः श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॑ये
प्रति॑तिष्ठति । द्वि॒द्योन्मा॑ पा॒हीत्यु॒परि॑ष्टा॒दधि॑निदधाति ।
उ॒भयत॑ ए॒वास्मै॒ शर्म॑ दधाति । अवै॑ष्टा दंदशूका॒ इति॑ क्लीब ँ
सीसेन॑ विध्यति । दंदशूका॑ने॒वाव॑यजते । तस्मा॑त्क्ली॒बं
दंद॒शूकाद् ँशूकाः । निर॑स्तं॒ नमु॑चेः॒ शिर॒ इति॑ लोहिताय॒सं
निर॑स्यति । पा॒प्मान॑मेव॒ नमु॑चिं॒ निर॑वदयते । प्रा॒णा
तैत्तिरीयब्राह्मणम् (१.७.८) २९७
आ॒त्मनः॑ पूर्वे॑ऽभिषि॒च्या इत्या॑हुः (२) । सोमो॒ राजा॒
वरु॑णः । दे॒वा धर्म॑सु॒व॑श्च॒ ये । ते ते॒ वाचँ॑ सुवन्तां॒ ते त॑
प्रा॒णँ॑ सु॑वन्ता॒मित्या॑ह । प्रा॒णाने॒वाऽऽत्मनः॑
पूर्वा॑न॒भिषि॑ञ्चति । यद्ब्रू॒यात् । अ॒ग्नेस्त्वा॒
तेज॑सा॒ऽभिषि॑ञ्चामीति॑ । तेज॒स्ये॑व स्या॑त् । दुश्चर्मा॑ तु
भ॑वेत् । सोम॑स्य त्वा द्यु॒म्नेना॒ऽभिषि॑ञ्चामीत्या॑ह । सौ॒म्यो
वै दे॒वत॑या॒ पुरु॑षः (३) । स्वयै॒वैनं॑ दे॒वत॑या॒ऽभिषि॑ञ्चति ।
अ॒ग्नेस्तेज॑सेत्या॑ह । तेज॑ ए॒वास्मि॑न्दधाति । सूर्य॑स्य॒
वर्च॑सेत्या॑ह । वर्च॑ ए॒वास्मि॑न्दधाति ।
इन्द्र॑स्येन्द्रि॒येणेत्या॑ह । इ॒न्द्रि॒यमे॒वास्मि॑न्दधाति ।
मि॒त्रावरु॑णयोर्वी॒र्ये॑णेत्या॑ह । वी॒र्य॑मे॒वास्मि॑न्दधाति ।
म॒रुता॒मोज॑सेत्या॑ह (४) । ओज॑ ए॒वास्मि॑न्दधाति । क्ष॒त्राणां॒
क्ष॒त्रप॑तिरसीत्या॑ह । क्ष॒त्राणा॑मे॒वैनं॑ क्ष॒त्रप॑तिं करोति ।
अति॑दि॒वस्पा॒हीत्या॑ह । अत्य॒न्यान्या॒हीति॒ वावैतदा॑ह ।
स॒माव॑वृ॒त्रन्नध॑रागुदी॑ची॒रित्या॑ह । रा॒ष्ट्रमे॒वास्मि॑न्ध्रु॒वम॑कः ।
उ॒च्छेष॑णेन जुहोति । उ॒च्छेष॑णभागो॒ वै रुद्रः॑ । भा॒ग॒धेये॑नैव
रु॒द्रं निर॑वदयते (५) । उद॑ङ्परे॒त्याग्नी॑ध्रे जुहोति । ए॒षा
वै रु॒द्रस्य॒ दिक् । स्वाया॑मे॒व दि॒शि रु॒द्रं निर॑वदयते । रुद्र॒
यत्ते॒ क्रयी॑परं॒ नामेत्या॑ह । यद्वा अ॑स्य॒ क्रयी॑परं॒ नाम॑ । तेन॑
वा ए॒ष हि॑नस्ति॒ यँ॑ हि॑न॒स्ति । तेनै॒वैनँ॑ सह श॑मयति ।
तस्मै॑ हु॒तम॑सि य॒मेष्ट॑मसीत्या॑ह । य॒मादे॒वास्य॑
मृ॒त्युमप॑जयते (६) । प्रजा॑पते॒ न त्वदे॒तान्य॒न्य इति॒ तस्यै॑
गृ॒हे जु॑हुयात् । यां कामये॑त रा॒ष्ट्रम॑स्यै प्र॒जास्या॒दिति॑ ।
रा॒ष्ट्रमे॒वास्यै॑ प्र॒जा भ॑वति । पू॒र्णम॑ये॑नाध्व॒र्यु॒रभिषि॑ञ्चति ।
ब्र॒ह्म॒व॒र्च॒समे॒वास्मि॒न्त्वषि॑ दधाति । औदु॑म्बरेण रा॒जन्यः॑ ।
ऊर्ज॑मे॒वास्मि॑न्न॒न्नाद्यं॑ दधाति । आश्व॒त्थेन॒ वैश्यः॑ ।
२९८ (१.७.९) तैत्तिरीयब्राह्मणम्
विश॑मे॒वास्मिन्-पुष्टिं॑ दधाति । नैर्य॑ग्रोधे॒न् जन्य॑: ।
मि॒त्राण्ये॒वास्मै॑ कल्पयति । अथो॒ प्रति॑ष्ठित्यै । (७) ।
भ॒व॒त्याहु॑: पुरु॑ष ओज॒सेत्या॑ह॒ निर॑वदयते यज॒ते जन्यो॒ द्वे च॑ ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
सप्तमाध्यायेऽष्टमोऽनुवाकः ॥ ८ ॥
अथ सप्तमप्रपाठके नवमोऽनुवाकः ।
इन्द्र॑स्य व॒ज्रो॑ऽसि॒ वार्त्र॑घ्न॒ इति॒ रथ॑मुपाव॑हरति॒ विजि॑त्यै ।
मि॒त्रावरु॑णयोस्त्वा प्रशा॒स्त्रोः प्रशिषा॑ युनज्मीत्या॑ह । ब्रह्म॑णै
वैनं॑ दे॒वता॑भ्यां युनक्ति । पृ॒ष्टि॒वा॒हिनं॑ युनक्ति । पृ॒ष्टि॒वाही॑
वै दैवो॒ रथ॑: । दैवर॑थमे॒वास्मै॑ युनक्ति । त्रयो॑ऽश्वा॑ भवन्ति ।
रथ॑श्चतु॒र्थः । द्वौ स॑व्येष्ठसार॒थी । षट्संप॑द्यन्ते (१) षड्वा
ऋ॒तव॑: । ऋ॒तुभि॑रे॒वैनं॑ युनक्ति । विष्णुक्॑रमा॒न्क्रम॑ते ।
विष्णु॑रिव भू॒त्वेमा ँल्लो॒काना॒भिज॑यति । यः क्ष॑त्रि॒यः
प्रति॑हितः । सोऽन्वा॑रभते । रा॒ष्ट्रमे॒व भ॑वति ।
त्रि॒ष्टुभा॒ऽन्वार॑भते । इन्द्रि॒यं वै त्रि॒ष्टुक् । इ॒न्द्रि॒यमे॒व यज॑माने
दधाति (२) । म॒रुतां॒ प्रस॒वेऽजै॑ष॒मित्या॑ह । म॒रुद्भि॑रेव प्रसूत॑
उर्ज॑यति । आप्तं॒ मन॒ इत्या॑ह । यदैव मन॑सैप्सी॒त् ।
तदा॑पत् । रा॒जन्यं॑ जिनाति । अना॑क्रान्त ए॒वाऽऽक्र॑मते ।
वि वा ए॒ष इ॑न्द्रि॒येण॑ वी॒र्ये॑णर्ध्यते । यो रा॒जन्यं॑ जि॒नाति॑ ।
स॒म॒हमि॑न्द्रि॒येण॑ वी॒र्ये॑णेत्या॑ह (३) । इ॒न्द्रि॒यमे॒व
वी॒र्य॑मा॒त्मन्ध॑त्ते । प॒शूनां म॒न्युर॑सि॒ तवै॑व मे म॒न्युर्भूया॒दिति॑
वारा॑ही उ॒पानहा॒वुप॑मुञ्चते । प॒शूनां॒ वा ए॒ष म॒न्युः ।
यद्वरा॑हः । तेनै॒व प॑शूनां म॒न्युमा॒त्मन्ध॑त्ते । अ॒भि वा इ॒यं ँ
सु॑षुवा॒णं का॑मयते । तस्यै॒श्वरे॑न्द्रि॒यं वी॒र्य॑मादा॒तोः ।
वारा॑ही उ॒पानहा॒वुप॑मुञ्चते । अ॒स्या ए॒वान्त॑र्धत्ते ।
इ॒न्द्रि॒यस्य॑ वी॒र्य॑स्याना॑त्यै (४) । नमो॑ मा॒त्रे पृ॑थि॒व्या
तैत्तिरीयब्राह्मणम् (१.७.१०) २९९
इत्या॒हाहि॑ ँ मायै । इर्य॑दस्या॒ऽऽयुर॒स्या॒ऽऽयुम् धे॒हीत्या॑ह ।
आयु॑रे॒वाऽऽत्मन्-ध॑त्ते । ऊर्ग॑स्यूर्जं॑ मे धे॒हीत्या॑ह ।
ऊर्ज॑मे॒वाऽऽत्मन्-ध॑त्ते । यु॒ङ्ङ॑सि॒ वचा॒ऽसि॒ वचो॑ मयि॑
धे॒हीत्या॑ह । वर्च॑ ए॒वाऽऽत्मन्-ध॑त्ते । एक॑धा॒ ब्रह्म॑न्
उप॑हरन्ति । एक॑धैव यज॑मान॒ आयू॒रूजं॑ वर्चो॑ दधाति ।
र॒थ॒वि॒मो॒च॒नीया॑ जुहो॒ति॒ प्रति॑ष्ठित्यै (५) । त्रयोऽश्वा॑
भव॒न्ति॒ । रथ॑श्चतु॒र्थः । तस्मा॑च्चतुर्जुहोति । यदु॒भौ
स॒हाव॑तिष्ठे॒ताम् । समा॒नं लो॒कमिया॑ताम् । स॒ह सं॒ग्र॒ही॒त्रा
र॒थ॒वा॒ह॒ने॒ रथ॒माद॑धाति । सु॒वर्गादे॒वैनं॑ लो॒कादन्तर्द॑धाति ।
ह॒ँसः शु॑चि॒षदित्याद॑धाति । ब्रह्म॑णै॒वैन॑मुपाव॑ हरति ।
ब्रह्म॑णा द॑धाति । अति॑च्छन्दसा द॑धाति । अति॑च्छन्दा वै
सर्वा॑णि॒ च्छन्दा॑ ँ सि । सर्वे॑भिरे॒वैनं॒ छन्दो॑भिरा॒दधा॑ति ।
व॒र्ष्म॒ वा ए॒षा छन्द॑साम् । यदति॑च्छन्दाः । यदति॑च्छन्दसा॒
दधा॑ति । व॒र्ष्मणै॒वैन॑ ँ समा॒नानां॑ करोति (६) ।
प॒द्यन्ते॒ दधा॑ति वी॒र्येण॑त्या॒हाना॑त्यै॒ प्रति॑ष्ठित्यै॒ ब्रह्म॑णा द॑धाति स॒प्त
च॑ ।
इति कृष्णयजुर्वेदीयैत्तिरीयब्राह्मणे प्रथमाष्टके
सप्तमाध्याये नवमोऽनुवाकः ॥ ९ ॥
अथ सप्तमप्रपाठके दशमोऽनुवाकः ।
मित्रो॑ऽसि॒ वरु॑णोऽसीत्या॑ह । मैत्रं॒ वा अह॑ः । वारु॑णी
रात्रि॑ः । अ॒हो॒रा॒त्राभ्या॑मे॒वैन॑मु॒पाव॑हरति । मित्रो॑ऽसि॒
वरु॑णोऽसीत्या॑ह । मैत्रो॒ वै दक्षि॑णः । वारु॑णः स॒व्यः ।
वै॒श्व॒दे॒व्यामि॒क्षा॑ । स्वमे॒वैनौ॑ भा॒ग॒धेय॑मु॒पाव॑हरति । समृद्धं॑
वि॒श्वैर्देवै॒रित्या॑ह (१) । वै॒श्व॒दे॒व्यो वै प्र॒जाः । ता
ए॒वाऽऽद्या॑ः कुरुते । क्ष॒त्र
३०० (१.७.१०) तैत्तिरीयब्राह्मणम्
मासी॑द् सुषदा॒ मासी॒देत्या॑ह । यथा॒ यजु॑रे॒वैतत् । मा त्वा॑
हि ँ सीन्मा॒ मा॑ हि ँ सी॒दित्याहि॑ ँसायै । निष॑साद
धृतव्र॑तो वरु॑णः प॒स्त्या॑ । स्वासाम्रा॑ज्याय सुक्रतु॒रित्या॑ह ।
साम्रा॑ज्यमे॒वैन॑ ँ 'सुक्रतुं करोति । ब्रह्मा ँ ३ त्व ँ
राज॒न्ब्रह्मा॑ऽसि सवि॒ताऽसि॑ स॒त्यस॑व इत्या॑ह ।
स॒वि॒तार॑मे॒वैन॑' ँस॒त्यस॑वं करोति (२) । ब्रह्मा ँ ३ त्वँ
राज॒न्ब्रह्माऽसीन्द्रो॑ऽसि स॒त्यौजा॒ इत्या॑ह । इन्द्र॑मे॒वैन॑ ँ
स॒त्यौज॑सं करोति । ब्रह्माँ२ त्व ँराजन्ब्रह्माऽसि॑ मित्रो॑ऽसि
सु॒शेव॒ इत्या॑ह । मि॒त्रमे॒वैन॑' ँसु॒शेषं॑ करोति । ब्रह्माँ३ त्व ँ
राज॒न्ब्रह्माऽसि॒ वरु॑णोऽसि स॒त्यध॑र्मेत्याह । वरु॑णमे॒वैन॑ ' ँ
स॒त्यध॑र्माणं करोति । स॒वि॒ताऽसि॑ स॒त्यस॑व् इत्या॑ह ।
गा॒य॒त्रीमे॒वैतेना॒भिव्याह॑रति । इन्द्रो॑ऽसि स॒त्यौजा॒ इत्या॑ह ।
त्रि॒ष्टुभ॑मे॒वैतेना॒भिव्याह॑रति (३) । मित्रो॑ऽसि सु॒शेव्
इत्या॑ह । जग॑तीमे॒वैतेना॒भिव्याह॑रति । स॒त्यमे॒ता दे॒वता॑: ।
स॒त्यमे॒तानि॒ च्छन्दा ँसि । स॒त्यमे॒वाव॑रुन्धे । वरु॑णोऽसि
स॒त्यध॑र्मेत्या॑ह । अ॒नु॒ष्टुभ॑मे॒वैतेना॒भिव्याह॑रति । स॒त्यानृ॒ते
वा अनु॑ष्टुप् । स॒त्यानृ॒ते वरु॑णः । स॒त्यानृ॒ते ए॒वाव॑रुन्धे
(४) । नैन॑ ँस॒त्यानृ॒ते उ॑दि॒ते हि ँस्तः । य ए॒वं वेद॑ ।
इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒ इति॒ स्फ्यं प्रय॑च्छति । वज्रो॒ वै
स्फ्यः॑ । वज्रे॑णैवास्मा॒ अवर॒पर॑ ँर॒न्धय॑ति । एव ँहि
तच्छ्रेय॑: । यद॑स्मा ए॒ते रध्ये॑युः । दिशो॒ऽभ्य॑य ँ
राजा॑ऽभूदि॒ति प॒ञ्चाक्षान्प्रय॑च्छति । ए॒ते वै सर्वे॑याः ।
अ॒प॒राजि॑यिनमेवैनं करोति (५) । ओदनमुद् ब्रु॑वते । प॒र॒मे॒ष्ठी
वा ए॒षः । यदौद॑नः । प॒र॒मामे॒वैन॑ ँ श्रियं॑ गमयति ।
सुश्लोका ३ ँ सुर्मङ्गला ३ ँ सत्य॑राजा३नित्या॑ह ।
आ॒शिष॑मे॒वैतामाशा॑स्ते । श्यौन॒:शेप॒माख्या॑पयते ।
तैत्तिरीयब्राह्मणम् ˙ (१.८.१) ३०१
वरु॑णपा॒शादे॒वैनं॑ मुञ्चति । प॒रःश॒तं भ॑वति । श॒तायुः॑
पुरु॑षः श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॑ये प्रति॑ [ति]ष्ठति ।
मा॒रु॒तस्य॑ चैक॑वि ँ शतिकपालस्य वैश्वदे॒व्यै॑
त्वाऽऽमिक्षा॑या ऽअ॒ग्नये॑ स्विष्ट॒कृते॑ स॒मव॑द्यति ।
दे॒वता॑भिरे॒वैन॑मुभ॒यतः॑ परि॑गृह्णाति । अपांनप्त्रे॒
स्वाहौजोन॑प्त्रे॒ स्वाहा॒ऽग्नये॑ गृह॒पत॑ये॒ स्वाहेति॑ ति॒स्र
आहुती॑र्जुहोति । त्रय॑ इ॒मे लो॒काः । ए॒ष्वे॑व लो॒केषु॒
प्रतिति॑ष्ठति (६) ।
दे॒वैरित्या॑ह स॒त्यस॑वं करोति त्रि॒शुभ॑मे॒वैतेना॑भि॒व्याह॑रति
स॒त्यानृ॒ते ए॒वाव॑रुन्धे करोति श॒तेन्द्रि॑यः॒ षट् च॑ ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
सप्तमाध्याये दशमोऽनुवाकः ॥ १० ॥
एतद्ब्राह्मणानि धात्रे रत्निनां देवसु॒वाम॒र्थेऽतो॒ देवी॒र्दिशः
सो॒मस्येन्द्र॑स्य मि॒त्रों दश॑ ॥ १० ॥
एतद्ब्राह्मणानि वैष्णवं त्रिकपालमन्नं वै पू॒षा वाऽऽशा॒स्थेस्या॑ह
दि॒यु॒र्दह॑परं॒त्यब्र॑ह्माँ२स्त्वं॒ राज॑श्व॒र्तुः षष्टिः ॥ ६४ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे
प्रथमाष्टके सप्तमोऽध्यायः ॥ ७ ॥
अथ प्रथमाष्टकेऽष्टमोऽध्यायः ।
तत्र प्रथमोऽनुवाकः ।
वरु॑णस्य सु॒षुवा॒णस्य॑ दश॒धेन्द्रि॑यं वी॒र्यं॑ परा॑पतत् । तत्स ँ
सृ॒द्भिरनु॒सम॑सर्पत् । तत्स ँसृपा ँस ँसृ॒प्वम् । अ॒ग्निना॑
दे॒वेन॑ प्रथ॒मेऽह॑ न्नु॒ प्रा॒यु॑ङ्क्त । सर॑स्वत्या वा॒चा द्वि॒तीये॑ ।
स॒वित्रा प्र॑स॒वेन॑ तृ॒तीये॑ । पू॒ष्णा प॒शुभि॑श्चतु॒र्थे । बृह॒स्पति॑ना
ब्रह्म॑णा पञ्च॒मे । इन्द्रे॑ण दे॒वेन॑ ष॒ष्ठे । वरु॑णेन स्वया॑ दे॒वत॑या
स॒प्तमे (१) । सोमे॑न॒ राज्ञा॒ऽष्टमे॑ । त्वष्ट्रा॑ रू॒पेण॑ नव॒मे ।