तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
प्रथमोऽनुवाकः ॥ १ ॥
तैत्तिरीयब्राह्मणम् (१.१.१) ५
कल्पः-“अप्रो॑क्षितौ शकलौ बहिर्वेदि निरस्यतो निरस्तौ षण्डामर्को
सहामुनेति निरस्तः षण्ड इति वाऽ ध्वर्युर्द्वेष्यं मनसाः ध्यायन्निरस्तो मर्क
इति प्रति प्रस्थाता ” इति । अत्र द्विवचनान्तो मन्त्रः शाखान्तरगतः ।
योऽयं षण्डाख्योऽसुरपुरोहितः सोऽयं यज्ञभूमेर्वेदेर्बहिर्निष्कासितः । यश्च
मर्काख्योऽसुरपुरोहितः सोऽपि बहिर्निष्कासित इत्याभ्यां मन्त्राभ्यामुभाव-
प्रोक्षितौ काष्ठशकलौ बहिर्निरस्यतः ।
अप॑नुत्तौ षण्डा॒मर्का॑व॒सहा॒मुना॑ ।
कल्पः-“तौ प्रोक्षिताभ्यां शकलाभ्यामपिधायाप्रोक्षिताभ्याम-
धस्तात्पांसुनपध्वंसयत । अपनूत्तौ षण्डामर्को सहामुना” इति । अयं च
मन्त्रोऽर्थक्रमानुसारेण शकलनिरसनमन्त्रात्प्रागेव द्रष्टव्यः ।
पात्रयोरधस्तनपांसुरूपेणावस्थितौ षण्डामर्कावसुरावमुनाऽस्मद्द्वेष्येण
सहापनुत्तौ निराकृतौ ।
शु॒क्रस्य॑ स॒मिद॑सि । म॒न्थि॒नः स॒मिद॑सि ।
कल्पः-“प्रो॑क्षितावाधत्तः । शुक्रस्य समिदसीत्यध्वर्युर्मन्थिनः
समिदसीति प्रतिप्रस्थातेत्यप्रोक्षितौ शकलौ बहिर्निरस्य प्रोक्षितौ
शकलावन्यावाधत्तः” (इति) । हे शकल त्वं शुक्रग्रहस्य समिन्धनहेतुरसि।
तथा हे शकल त्वं मन्थिग्रहस्य समिन्धनहेतुरसि ।
स प्र॑थ॒मः सं॒कृति॒र्विश्वकर्म॑ा । स प्र॑थ॒मो मि॒त्रो वरु॑णो
अ॒ग्निः । स प्र॑थ॒मो बृह॒स्पति॑श्चकि॒त्वान् । तस्मा॒ इन्द्रा॑य
सु॒तमाजु॑होमि (५)
न॒य॒न्त्व॒पान ँसंध॑त्तं॒ तं मे॑ जिन्वतं॒ प्रा॒णं य॒ज्ञाय॑ धतं॒ मानु॑षीर॒ग्निर्दू॒-
र्च॑ ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमकाण्डे प्रथम प्रपाठके
प्रथमोऽनुवाकः ॥ १ ॥
कल्पः-“शुक्रामन्थिनोः प्रतिनिगद्य होमः-स प्रथमः
संकृतिर्विश्वकर्मा स प्रथमो मित्रो वरुणो अग्निः स प्रथमो
बृहस्पतिश्चिकित्वांस्तस्मा इन्द्राय सुतमाजुहोमि” इति । इतरग्रहेषु
होतृप्रयुक्तवषट्कारेणैव होमः । न त्वध्वर्योर्मन्त्रपाठोऽस्ति । इह त्वेनं मन्त्रं
प्रतिनिगद्य होमः कर्तव्यः । स इन्द्रः प्रथमो देवानां मध्ये मुख्यः। संकृतिः
६ (१.१.२) तैत्तिरीयब्राह्मणम्
समीचींना कृतिर्जगद्रक्षणरूपव्यापारो यस्यासौ संकृतिः। विश्वानि
कर्माणि जगद्रक्षणहेतुभूतान्यसुरयुद्धादीनि यस्यासौ विश्वकर्मा । स एव
मुख्य इन्द्रो मूर्तिविशेषान्धृत्वा मित्रादिरूपः संपन्नः । स
एवेन्द्रश्चिकित्सान्सर्वज्ञानकुशलो बृहस्पतिरपि संपन्नः । तस्मै
तादृशायेन्द्राय सुतमपिषुतमिमं सोममा सर्वतो जुहोमि ।
अत्र विनियोगसंग्रहः-
अध्वर्युश्च प्रतिप्रस्थाता चाऽऽदाय ग्रहावुभौ ।
ब्रह्म शुक्रामन्थिपात्रं संधत्ते वेदिपश्चिमे ।।
स्तुतौ ग्रहावाददीत सुवीर्यातो दिशोर्द्वयोः ।
संजग्म वेदेः पुरतः संधत्तः पूर्ववद् ग्रहौ ।।
आयुर्मन्त्रयतेऽध्वर्युर्निरस्तः शकलौ त्यजेत् ।
अथ पांसुमपध्वस्य शुक्रामन्थिद्वयादुभौ ।।
प्रोक्षितौ शकलौ क्षिप्त्वा स प्रेति ग्रहयोर्हुतिः ।
स्तुतः स्तुतो निरस्तेति द्वयं द्वयमुदीरितम् ।
आद्यानुवाके कथिता मन्त्रा एत त्रयोदश ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमकाण्डे
प्रथमप्रपाठके प्रथमोऽनुवाकः ।। १ ।।
अथ द्वितीयोऽनुवाकः ।
प्रथमानुवाके सोमयागशेषभूताः शुक्रामन्थिग्रहप्रचारमन्त्रा उक्ताः ।
अथाऽऽधानप्रकरणमारभ्यते । तत्रास्मिन्ननुवाके कालविशेषं विधत्ते--
कृत्तिकास्व॒ग्निमाद॑धीत । ए॒तद्वा अ॒ग्नेर्नक्ष॑त्रम् ।
यत्कृत्ति॑काः स्वाया॑मे॒वैनं॑ दे॒वता॑या॒माधा॑य॒ ब्र॒ह्म॑व॒र्च॒सी॒
भ॑वति, इति ।
अग्निचयनकाण्डेऽम्बादुला नितल्लिरित्याद्याः कृत्तिकास्ता
यस्मिन्दिने चन्द्रेण संयुज्यन्ते तस्मिन्दिने तासु कृत्तिकासु चन्द्रयोगं
प्राप्तास्वग्न्याधानं कुर्यात् । यदेतत्कृत्तिकासंपातरूपं तदेतदग्निसंबन्धि
नक्षत्रम् । अत एवान्यत्राऽऽ म्नातम्-“कृत्तिका नक्षत्रमग्निर्देवता” इति ।
तैत्तिरीयब्राह्मणम् (१.१.२) ७
अत आधेयस्याग्नेः कृत्तिकास्वाधाने सति स्वरूपभूतायामेव
देवतायामाधानं कृतं भवति ।
अग्नेर्ब्राह्मणाभिमानित्वात्तत्प्रसादेनाधीतश्रुताध्ययनरूपब्रह्मवर्चससंपन्नो
भवति ।
प्रकारान्तरेण प्रशंसति-
मुखं॒ वा ए॒तन्नक्ष॑त्राणाम् । यत्कृत्ति॑काः यः
कृत्ति॑कास्व॒ग्निमा॑ध॒त्ते । मु॒ख्य॑ ए॒व भ॑वति, इति ।
कृत्तिका इति यत्तदेतन्नक्षत्राणां मध्ये मुखं प्रथमं नक्षत्रम् । अत एव
नक्षत्रप्रतिपादकेऽप्यनुवाक आदौ पठ्यते “कृत्तिका नक्षत्रमग्निर्देवता ”
इत्येकत्र । “अग्नेः कृत्तिकाः शुक्रं परस्तात् ” इत्यन्यत्र । “अग्निर्नः पातु
कृत्तिकाः । नक्षत्रं देवमिन्द्रियम्” इत्यन्यत्र । तदेतत्सर्वं
मन्त्रानुवाकेष्टिप्रविधायकेऽप्यनुवाक एतदीयैवेष्टिरादावाम्नाता
“अग्निर्वा अकामयत । अन्नादो देवाना ँस्यामिति । स एतमग्नये
कृत्तिकाभ्यः पुरोडाशमष्टाकपालं निरवपत्” इति । अतो सुखभूतासु
कृत्तिकास्वाधानः पुमान्सर्वेषु स्वयं मुख्यो भवति ।
अस्मिन्यक्षे गुणमुक्त्वा दोषमपि कंचिद्दर्शयति-
अथो॒ खलु॑ (१) अ॒ग्निनक्ष॑त्रमित्यप॑चा यन्ति । गृ॒हान्ह॑
दा॒हुको भवति, इति ।
पूर्वोक्तगुणवैलक्षण्यद्योतनायाथोशब्दः । अभिज्ञाः खल्वग्निदेवता-
कमिदं नक्षत्रमित्येवं निन्दन्ति तस्मिन्नक्षत्र आधानस्य यजमानस्य
गृहान्सोऽग्निर्दाहुको दहनशीलो भवति ।
अथ निर्दोषं नक्षत्रं विधत्ते-
प्र॒जाप॑ती रोहि॒ण्याम॒ग्निम॑सृजत । तं दे॒वा
रोहि॑ण्यामाद॑धत । ततो॒ वै ते सर्वा॒न्रोहा॑नरोहन् । तद्रो॑हि॒ण्यै
रो॑हिणि॒त्वम् । यो रो॑हि॒ण्याम॒ग्निमा॑ध॒त्ते । ऋ॒ध्नोत्ये॒व ।
सर्वा॒न्रोहा॑न्रोहति, इति ।
रुह्यन्ते प्राप्यन्त इति रोहाः कामास्ते च यस्यां रुह्यन्ते सा रोहिणी ।
ऋध्नोत्येव समृद्धो भवत्येव । समृद्धिरेव सर्वानित्यनेन विशदीकृता ।
नक्षत्रान्तरं विधत्ते-
८ (१.१.२) तैत्तिरीयब्राह्मणम्
दे॒वा वै भ॒द्राः सन्तोऽग्निमाधि॑त्सन्त (२)
तेषा॒मना॑हितोऽग्निरासी॑त् । अथै॑क्यो वा॒मं वस्व॑पा॑क्रामत् ।
ते पुन॑र्व॒स्वोराद॑धत । ततो॒ वै तान्वा॒मं वसू॒पाव॑र्तत । यः
पु॒रा भ॒द्रः सन्पापी॑यान्स्यात् । स पुन॑र्व॒स्वोर॒ग्निमाद॑धीत ।
पुन॒रिवै॒नं वा॒मं वसू॒पाव॑र्तते । भ॒द्रो भ॑वति, इति ।
भद्रा धनसंपन्ना आधित्सन्ताऽऽधातुमैच्छन् । तेषां धनगर्वेण
श्रद्धाराहित्यादग्निः सम्यगाहितो नाऽऽसीत् । अनन्तरं तेन विकलानुष्ठानेन
तदीयं वामं वननीयं मणिमुक्तादिकं धनं तेभ्योऽपगतम् । ततस्ते देवाः
श्रद्धालवां भूत्वा पुनर्वसू नक्षत्रवयवौ तारकाविशेषौ यस्मिन्दिने चन्द्रेण
युक्तौ तस्मिन्दिनेऽग्निं सम्यगाधाय तद्धनं पुनर्लब्धवन्तः । ततोऽप्यन्योऽपि
पूर्वं धनिकः सन्केनापि निमित्तेन पश्चात्पापीयान्स्यादत्यन्तनिर्धनो भवेत् ।
स पुनर्वस्वोरग्निमाधाय पूर्ववद्धनं प्राप्य सर्वेषां मध्ये भद्रः पूज्यो भवति ।
पुनरपि वसु लभ्यते ययोस्तौ पुनर्वसू ।
अथ नक्षत्रान्तरं विधत्ते-
यः कामये॑त दान॑कामा मे प्र॒जाः स्यु॒रिति॑ । स पूर्व॑योः
फल्गु॑न्योर॒ग्निमाद॑धीत (३) । अ॒र्य॒म्णो वा ए॒तन्नक्ष॑त्रम् ।
यत्पूर्वे॑ फल्गु॑नी । अ॒र्य॒मेति॒ तमा॑हु॒र्यो ददा॑ति । दान॑कामा
अ॒स्मै प्र॒जा भ॑वन्ति, इति ।
सर्वाः प्रजा मे मह्यं धनं दातुमिच्छन्त्विति यो यजमानः कामयेत
सोऽयं पूर्वयोः फल्गुन्योराधाय प्रजाभिर्दत्तं धनं लभते । एतच्च
नक्षत्रमर्यमदेवताकम् । “फल्गुनी नक्षत्रमर्यमा देवता”
इत्यन्यत्राऽऽम्नानात् । अरीन्यमयति धनदानेन वशी करोतीत्यर्यमा धनस्य
दाता ।
नक्षत्रान्तरं विधत्ते-
यः कामये॑त भ॒गी स्या॒मिति॑ । स उत्त॑रयोः
फल्गु॑न्योर॒ग्निमाद॑धीत । भग॑स्य॒ वा ए॒तन्नक्ष॑त्रम् । यदुत्त॑रे
फल्गु॑नी । भ॒ग्यै॑व भ॑वति, इति ।
तैत्तिरीयब्राह्मणम् (१.१.२) ९
भगी, ऐश्वर्यादिगुणषट्ककामः । तथा च स्मर्यते-
ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः ।
ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ।। इति ।
सत्काम उत्तरयोः फल्गुन्योराधाय तत्फलं प्राप्नोति । उत्तरयोः
फल्गुन्योर्भगदेवताकत्वमन्यत्राऽऽम्नातम् । "फल्गुनी नक्षत्रं भगो देवता"
इति ।
अथ नक्षत्रान्तरं विधत्ते-
का॒ल॒क॒ञ्जा वै नामासु॑रा आसन् (४) । ते सु॑व॒र्गाय॑
लो॒काया॒ग्निम॑चिन्वत । पुरु॑ष॒ इष्ट॑कामुपा॑दधात्पु॒रुष॒
इष्ट॑काम् । स इन्द्रो॑ ब्रा॒ह्म॒णो ब्रुवा॒ण इष्ट॑कामुपा॑धत्त । ए॒षा
मे॑ चि॒त्रा नामेति॑ । ते सु॑व॒र्गँल्लो॒कमाप्रारो॑हन् । स इन्द्र॒
इष्ट॑का॒मावृ॑हत् । तेऽवा॑कीर्यन्त । येऽवाकी॑र्यन्त । त
ऊर्णाव॑भयोऽभवन् । द्वावुद॑पतताम् (५) । तौ दि॒व्यौ
श्वानाव॑भवताम् । यो भ्रातृ॑व्या॒न्त्सयात् । स
चि॒त्राया॑म॒ग्निमाद॑धीत अव॑की॒र्यैव भ्रातृ॑व्यान् । ओजो॒
बल॑मिन्द्रि॒यं वी॒र्य॑मा॒त्मन्ध॑त्ते, इति ।
कालकञ्जशब्दोऽसुरविशेषनामधेयम् । ते चासुरा इति स्वर्गार्थमग्निं
चेतुं प्रारभन्त तदानीमेकैकोऽसुर एकैकामिष्टकामुपादधत् ।
तानसुराञ्जेतुकाम इन्द्रो वेषान्तरं कृत्वा ब्राह्मणोऽहमिति ब्रुवाणस्तन्मध्ये
प्रविश्य कांचिदिष्टकामुपाधत्त । तदानीं मनस्येषा मे मदीयेष्टका चित्रेति
नामधेयेन युक्ताऽपेक्षितविचित्रफलमदातृत्वादित्यमन्यत । तेन
चाग्निचयनेनासुराः स्वर्गमारोढुं प्रारभन्त । तदानीं स इन्द्रः स्वकीयां
तामिष्टां चितेरुद्धृतवान् । चितिभ्रंशेन मार्गमध्य एवासुराः प्रभ्रष्टाः । ते
चोर्णनाभिनामका लूताः कीटा अभवन् । तेन कीटेन संसृष्टं
तन्तुजालमूर्णशब्देनोच्यते । ऊर्णो तस्मिन्नूर्णे सूत्रजाले स्थिता अभयो
भीतिरहिता आसते । ते ह्याधारयोः काष्ठयोर्मध्य आकाशे तन्तुजालं सृष्ट्वा
तत्र निर्भयास्तिष्ठन्तीत्येतत्सर्वं लोकप्रसिद्धम् । ऊर्णावभय इति पदद्वयं
१० (१.१.२) तैत्तिरीयब्राह्मणम्
मिलित्वैकं नामधेयम् । अपानपादिति पदद्वयं यथैकस्याग्नेर्नाम तद्वत् ।
तेषामसुराणां मध्ये द्वावसुरौ श्रद्धातिशयात्स्वर्गं प्राप्य चितिभ्रंशात्तत्र
देवलोके श्वानावभूताम् । यस्मादत्रेन्द्रश्चित्रेणैकापातेन
तानसुराम्बिनाशितवांस्तस्माद्यजमानश्चित्रानक्षत्रेऽग्निमाधाय भ्रातृव्या-
न्विनाश्य स्वस्मिन्नोज आदिकं स्थापयति । ओजो बलहेतुरष्टमो धातुः ।
बलं प्रसिद्धम् । इन्द्रियं चक्षुरादिकम् । वीर्यं तदीयव्यवहारपाटवम् ।
इत्थं नक्षत्राणि विधायाधिकारिविशेषादृतून्विधत्ते-
व॒सन्ता ब्रा॑ह्म॒णोऽग्निमाद॑धीत । व॒सन्तो वै ब्रा॑ह्म॒णस्य॒र्तु॒ः ।
स्व ए॒वैन॑मृ॒तावा॒धाय॑ । ब्र॒ह्म॒व॒र्च॒सी भ॑वति । मुखं॒ वा
ए॒तदृ॑तू॒नाम् (६) । यद्व॑स॒न्तः । यो व॒सन्ता॒ऽग्निमाद॑ध॒त्ते ।
मु॒ख्य॑ ए॒व भ॑वति । अथो॒ योनि॑मन्तमे॒वैनं॑ प्र॒जात॒माध॑त्ते ।
ग्री॒ष्मे रा॑ज॒न्य॑ आ॒दधीत । ग्री॒ष्मो वै रा॑ज॒न्यस्य॒र्तु॒ः । स्व
ए॒वैन॑मृ॒तावा॒धाय॑ । इ॒न्द्रि॒या॒वी भ॑वति । श॒रदि॒ वैश्य॑
आ॒द॑धीत । श॒रद्वै वैश्य॑स्य॒र्तु॒ः (७)। स्व ए॒वैन॑मृ॒तावा॒धाय॑ ।
प॒शु॒मान्भ॑वति, इति ।
वसन्तो वसन्तर्तुस्तस्य च ब्राह्मणस्य च प्राथम्य-
साम्यात्स्वस्वामिभावात्स्वकीयऋतावाधानस्य ब्राह्मणस्य स्वोचितं
ब्रह्मवर्चसमेव फलम् । किंच 'मधुश्च माधवश्च वासन्तिकावृतू '
इत्याम्नानान्मुखत्वं प्राथम्यं वसन्तस्याप्यवगन्तव्यम् । अपि च यथा
स्त्रीणामृतुविशेषे प्रवृत्तः पुरुषः प्रजननसमर्थो भवति तथर्तुविशेषे
योनिमन्तं प्रजननसामर्थ्यवन्तं प्रादुर्भूतं प्रजातं चाग्निमाधत्ते । एवं
ग्रीष्मशरद्वाक्योरपि व्याख्येयम् ।
पूर्वं काम्य आधाने पूर्वोत्तरफल्गुनीनक्षत्रद्वयं विहितम् । इदानीं तु
नित्य आधाने नक्षत्रमेकं निषिध्येतरद्विधत्ते -
न पूर्वे॑यो॒ः फल्गु॑न्योर॒ग्निमाद॑धीत । ए॒षा वै ज॑घ॒न्या
रात्रि॑ः । सं॒व॒त्स॒रस्य॑ । यत्पूर्वे॑ फल्गु॑नी । पृ॒ष्ठित ए॒व
'सं॒व॒त्स॒रस्या॒ग्निमा॒धाय॑ । पापी॑यान्भवति ।
उत्त॑र॒योरादधीत । ए॒षा वै प्रथ॑मा रात्रि॑ः संवत्स॒रस्य॑ ।