सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पञ्चमोऽनुवाकः ॥ ५ ॥

१९० (१.४.६) तैत्तिरीयब्राह्मणम्
शि॒पि॒वि॒ष्टव॑तीषु कुर्वन्ति । शि॒पि॒वि॒ष्टो वै दे॒वानां॒ पुष्टम्॑ ।
पुष्ट्यै॒वैन॑ ँसम॑र्धयन्ति, इति ।
शिपिविष्टशब्दो यास्वृक्षु विद्यते ताः शिपिविष्टवत्यः ।
शिपिविष्टशब्दो विष्णुवाची । “यः पशोर्भूमा या पुष्टिस्तद्विष्णुः शिपिष्टः”
इति श्रुत्यन्तरात् । स च देवानां पुष्टिहेतुः। अतः शिपिविष्टवतीषु कुर्वतीषु
गायन्तीषु गाने सति पुष्ट्यैव यजमानं समृद्धं कुर्वन्ति ।
अनुष्ठानप्रकारं विधत्ते-
होतु॑श्चम॒समनून्न॑यन्ते । होताऽनु॑श ँस॑ति । मध्य॑त एव य॒ज्ञ ँ
समा॒र्दधा॑ति, इति ।
य॒न्ति सर्व॑नस्याति॒रिच्य॑ते शासति दाधाराष्टौ च॑ ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके चतुर्थाध्याये
पञ्चमोऽनुवाकः ॥ ५ ॥
पूर्ववत् ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके
पञ्चमोऽनुवाकः ॥ ५ ॥
अथ चतुर्थप्रपाठके षष्ठोऽनुवाकः ।
पञ्चमे सोमातिरेकप्रायश्चित्तमुक्तम् । षष्ठे त्वेकग्राम-
वर्तिबहुसोमयागविषयविशेषोऽभिधीयते । तत्रैकं विशेषं विधत्ते-
एकै॑को वै ज॒नता॑या॒मिन्द्र॑ः । एकं॒ वा ए॒ता
विन्द्र॑म॒भिस ँसु॑नुतः । यौ द्वौ स 'सु॑नुतः । प्र॒जाप॑ति॒र्वा ए॒ष
विता॑यते । यद्य॒ज्ञः । तस्य॒ ग्रावा॑णो॒ दन्ता॑ः । अ॒न्य॒तरं॒ वा
ए॒ते स 'सु॑न्व॒तोर्निर्ब॑प्सति । पूर्वे॑णोप॒सृत्या॒ देव॑ता॒ इत्या॑हुः ।
पूर्वो॑प॒सृत॑स्य॒ वै श्रेया॑न्भवति । ए॒तैर्वन्त्याज्या॑नि
भवन्त्य॒भिजित्यै॑ (१), इति ।

तैत्तिरीयब्राह्मणम् (१.४.६) १९१
सत्येकग्रामवर्तिन्यामेकस्यां जनतायां मध्य यौ द्वौ यजमानौ संसुनुतः
संभूय सोमयागं कुरुतः । एकस्मिन्काले कुरुत इत्यर्थः । तावेतावुभौ
यजमानावेकमेवेन्द्रमभिलक्ष्य संभूयैकस्मिन्कालेऽनुतिष्ठतः । तथा सति
ममायमिन्द्रोऽस्त्वित्येवं तयोर्विप्रतिपत्तिर्भवेत् । अत एवाऽ
ऽश्वलायनेनोक्तम्-“विमतानां प्रसवसंनिपातेऽशंवः” इति । तत्र यो यज्ञः
स एष प्रजापतिरूप एव भूत्वा विस्तार्यते । तस्य प्रजापति रूपस्य
यज्ञस्योपांशुसवनादयो ग्रावाणस्तीक्ष्णदन्तस्थानीयाः । एते ग्रावाणः संभूय
सोममभिषुण्वतोर्द्वयोर्यजमानयोर्मध्येऽन्तरं यजमानं निर्वप्सति निःशेषेण
भर्त्सयन्ति । एकेन यजमानेनेन्द्रस्य परिगृहीतत्वादितरस्येन्द्रभावेन
यागाभाव एव भर्त्सनम् । अत एवाभिज्ञाः पूर्वेण प्रथमप्रवृत्तेन यजमानेन
देवता उपसृत्याः प्राप्या इत्याहुः । लोकेऽपि हि प्रथमं सेवमाने भृत्ये
स्वामी पक्षपातं करोति । तस्मात्पश्चादुपगच्छन्तं निर्देवतं यजमानं ग्रावरूपा
दन्ता दशन्ति । अतस्तत्परिहारायाऽऽज्यस्तोत्राण्येतिवन्ति कर्तव्यानि ।
इण् गतावित्यस्य धातोरर्थमतिशब्दो ब्रूते । क्तिन्प्रत्ययान्तस्यास्य
धातोराङ्पूर्वेत्वे सत्यतिशब्दनिष्पत्तेस्तदर्थवाचिनः शब्दा येषु स्तोत्रेषु
विद्यन्ते तादृशानि स्तोत्राणि प्रातःसवने कर्तव्यानि । तथा
सतीन्द्राभावदोषपरिहारेणास्याभिजयो भवति ।
तत्रापरं विशेषं विधत्ते-
म॒रुत्व॑तीः प्रति॒पदः॑। म॒रुतो॒ वै दे॒वाना॑मप॑राजितमा॒
यत॑नम्। दे॒वाना॑मे॒वाप॑राजित आ॒यत॑ने यतते, इति ।
मरुच्छब्दो यास्वृक्ष्वस्ति ता मरुत्वत्यः । तथाविधा ऋच आज्यस्तोत्रे
प्रतिपदः प्रथमभाविनीः कुर्यात् । देवानां मध्ये मरुतो बलवत्त्वेन पराजय-
रहितं स्थानम् । ततो देवसंबन्धिन्यपराजिते स्थाने प्रयत्नं करोति ।
ऋग्विशेषं विधाय सामविशेषं विधत्ते-
उ॒भे बृ॑हद्रथंत॒रे भ॑वतः । इ॒यं वाव र॑थंत॒रम् । अ॒सौ बृ॒हत् ।
आ॒भ्यामे॒वैन॑मन्त॒रैति॑ । वा॒चश्च॒ म॒न॑सश्च ।
प्रा॒णाच्चा॑पा॒नाच्च॑ । दि॒वश्च॑ पृथि॒व्यश्च॑ (२)। सर्व॑स्माद्वि॒त्ता
द्वेद्या॑त्, इति ।
एकस्मिन्स्तोत्रे बृहतसामान्यस्मिन्न्रथंतरमित्येवं चतुर्ष्वाज्यस्तोत्रेषु
पर्यायेणोभे सामनी भवतः । रथंतरस्य भूलोकरूपत्वात् । बृहतो
द्युलोकरूपत्वात् । एतद्रूपाभ्यां सामभ्यामेवैनं यजमानं संसवदोषादन्तरितं

१९२ (१.४.६) तैत्तिरीयब्राह्मणम्
व्यवहितं करोति । किंच सामद्वयस्य वागादियुग्मरूपत्वाद्रागादिभिरपि
व्यवधानं करोति । वित्तं पूर्वं लब्धं वेद्यमितः परं लब्धव्यम् ।
आज्यस्तोत्रेषु सामविशेषं विधाय तृतीये पृष्ठस्तोत्रे सामविशेषं
विधत्ते-
अ॒भि॒व॒र्त्तो ब्र॑ह्मसा॒मं भ॑वति । सु॒व॒र्गस्य॑ लो॒कस्या॑भि॒वृत्त्यै॑,
इति ।
ब्रह्मसंबन्धिनि पृष्ठस्तोत्रेऽभिवर्ताख्यं सामोद्गाता गायेत् । यामृचं
ब्रह्मा शंसति तस्यामृच्युद्गात्रा गातव्यं साम ब्रह्मसाम्न् । अभिवर्तसाम्ना
स्वर्गोऽभिमुखत्वेन वर्तते ।
अथाहर्विशेषं विधत्ते-
अ॒भि॒जिद्भव॑ति । सु॒व॒र्गस्य॑ लो॒कस्या॒भि जि॑त्यै ।
वि॒श्व॒जिद्भव॑ति वि॒श्वस्य॑ जित्यै॑, इति ।
अभिजिद्विश्वजिताख्ययोरेकहयोरन्यतरं कुर्यात् । उभयोरपि जयहेतु
त्वात् ।
अथापरं विशेषं विधत्त-
यस्य॒ भूया॑ँसो य॒ज्ञक्रत॑व इत्या॑हुः ।। स दे॒वता॑ वृङ्क्त॒ इति॑ ।
यद्य॑ग्निष्टो॒मः सोम॑ः पु॒रस्ता॑त्स्यात् (३) । उ॒क्थ्यं॑ कुर्वीत ।।
यद्यु॒क्थ्य॑ः स्यात् । अ॒ति॒रा॒त्रं कु॑र्वीत । य॒ज्ञक्रतु॑भिरे॒वास्य॑
दे॒वता॑ वृङ्क्त, इति ।
उभयोर्मध्ये यस्य यजमानस्य यज्ञक्रतवो भूयांसोऽङ्गभूतैर्यज्ञैर्युक्ताः
प्रधानक्रतवोऽनुष्ठेयधर्मबहुला भवन्ति स तादृशो यजमानोऽल्पध-
र्मानुष्ठायिनोऽन्यस्य यजमानस्य देवता विनाशयति । अतः परस्तादन्यस्य
यजमानस्य गृहे यद्यग्निष्टोमाख्यः सोमः स्यात्तदा स्वयं ततोऽधिकमुक्थ्यं
कुर्वीत । यद्युक्थ्यस्तदा स्वयं ततोऽधिकमतिरात्रं कुर्वीत । एवं
स्वकीयैरधिकयज्ञक्रतुभिरेवेतरस्य देवता विनाशयति । तस्य
फलाधिक्याभाव एव विनाश इत्युच्यते ।
विशेषान्तरं विधत्ते-

तैत्तिरीयब्राह्मणम् (१.४.६) १९३
यो वै छन्दो॑भिरभि॒भव॑ति । स सं॑ ॅ सुन्व॒तोर॒भिभ॑वति ।
सं॒वेशा॑य त्वोपवे॒शाय॑ त्वेत्या॑ह । छन्दा॑ ॅ सि॒ वै सं॒वेश॑
उ॑पवे॒शः । छन्दो॑भिरे॒वास्य॒ छन्दा॑ ॅ स्य॒भिभ॑वति, इति ।
यो यजमानः स्वकीयैश्छन्दोभिरितरस्य च्छन्दांस्यभिभवितुमुद्युङ्क्ते
स एवं संसुन्वतौर्मात्सर्य्येण सोममभिषुण्वतोर्मध्ये परकीयाणि
च्छन्दांस्याभिभवितुं समर्थो भवति । तस्मात्तत्सामर्थ्याय संवेशादिमन्त्रहोमं
कुर्यात् । संप्राप्यावस्थितिः संवेशः । तत्रैवाऽऽसनमुपवेशः । हे देव मम
संवेशाय त्वां भजे तथोपवेशाय च त्वां इत्येवं मन्त्रं होमकाले ब्रूयात् ।।
एतन्मन्त्रशेषश्चसंहितायां तृतीयकाण्डे समाम्नातो व्याख्यातश्च ।
स्वकीयानि च्छन्दांस्येव संवेशोपवेशौ । तत्साधनत्वात् । अतः
स्वकीयैश्छन्दोभिरेव होमतुष्टैरन्यस्यच्छन्दांस्यभिभवति ।
पुनरप्यन्यं विशेषं विधत्ते-
इ॒ष्ट॒र्गो वा ऋ॒त्विजा॑म॒ध्व॒र्युः (४) । इ॒ष्ट॒र्गः खलु॒ वै पूर्वो॑ऽर्त्तुः
क्षी॑यते । प्रा॒णा॒पा॒नौ मृ॒त्योर्मा॑ पा॒तमित्या॑ह ।
प्रा॒णा॒पा॒नयो॑रेव॒ श्रय॑ते । प्रा॒णा॒पा॒नौ मा॒ मा
हा॑सिष्ट॒मित्या॑ह । नैनं॑ पुराऽऽयु॑षः प्राणापा॒नौ ज॑हितः,
इति ।
इष्टं वृङ्क्ते विनाशयतीतीष्टर्गोऽध्वर्युः सर्वेषामृत्विजामिष्टं
विनाशयति । तस्यानुष्ठानबाहुल्येन प्रमादसंभवात् । अर्त्तुरातिं गच्छत
ऋत्विक्संघात्पूर्वः प्रथमभावी सन्नयमिष्टर्गोऽध्वर्युः क्षीणो भवति । ततः
क्षयव्यावृत्तये प्राणपानावित्यादिमन्त्रं होमकाले ब्रूयात् । हे प्राणापानौ
मृत्योः सकाशान्मा पातं मां रक्षतम् । अनेन अपूर्वभागेन
प्राणापानयोरेवाऽऽश्रितो भवति । हे प्राणापानौ मां मा हासिष्टं मा
कदाचिदपि मा परित्यजतम् । अनेन मन्त्रस्योत्तरभागेन
शतसंवत्सरादायुषः पुरा प्राणापानावेनं न परित्यजतः ।
इत्येवमेकदेशवर्तिनोः सोमयाजिनोः संशये प्राप्ते विशेषोऽभिहितः ।
अथ सत्रविषये कंचिद्विशेषं विधत्ते-
आ॒र्तिं वा ए॒ते नि॒यन्ति॑ । येषां॑ दी॒क्षिता॑नां॒ प्रमीय॑ते । तं
यद॑वव॒र्जये॑युः । क्रू॒र॒कृ॒तामि॑वैषां लो॒कः स्या॑त् । आर्ह॑र

१९४ (१.४.६) तैत्तिरीयब्राह्मणम्
दृ॒हेति॑ ब्रूयात् (५) । तं दक्षि॑ण॒तो वेद्यै॑ नि॒धाय॑ । स॒र्प॒रा॒ज्ञिया॑
ऋ॒ग्भिः स्तुयुः॑ । इ॒यं वै स॑र्प॒तो राज्ञी॑ । अ॒स्या ए॒वैनं॒
परि॑ददति, इति ।
सत्राय दीक्षितानां येषां मध्ये कश्चिन्म्रियेत तदानीमेते सर्वे सत्रिण
आर्ति यज्ञविनाशरूपां बाधां निरन्तरं प्राप्नुवन्ति । तं मृतमन्ये दीक्षिता
यद्यवज्ञाय दूरतो वर्जयेयुस्तदानीमेषां वर्जयतृणां क्रूरंकृतमिव
ब्रह्महत्यादिरूपं पापं कृतवतामिव नरकलोकः स्यात् । अतोऽवज्ञामकृत्वा
तं मृतमिहाऽऽनीय दाहादिसंस्कारं च कुर्विति तदीयपुत्रादिकं प्रत्यादरेण
ब्रूयात् । अथ तं प्रेतं वेद्या दक्षिणभागे निधाय सर्पराज्ञीदेवताका-
भिर्भूमिर्भूम्नेत्यादिभिर्ऋग्भिः स्तोत्रं कुर्युः । इयमेव भूमिः सर्पतः
संचरतः प्राणिजातस्य राज्ञी । अतोऽस्यै भूम्या एवैनं मृतं समर्पयन्ति ।
अथ स्तुतेरूर्ध्वं शंसनं विधत्ते-
व्यृ॑द्धं॒ तदित्या॑हुः । यत्स्तु॒तम॑ननु॒शस्त॒मिति॑ । होता॑ प्रथ॒मः
प्रा॑चीनावी॒ती मा॑र्जाली॒यं परी॑यात् । या॒मीर॑नु॒ब्रुवन्॑ ।
स॒र्प॒रा॒ज्ञीनां॑ कीर्तयेत् । उ॒भयो॑रे॒वैनं॑ लो॒कयोः॒ परि॑ददति
(६) । अथो॑ धुवन्त्ये॒वैन॑म् । अथो॒ऽन्यै वा॒ऽस्मै॑ हुवत,
इति ।
यद्देवतारूपं स्तोत्रेण विषयीकृतं तदनन्तरमेव शस्त्रेण विषयीकृतं न
स्यात् । तत्समृद्धिहीनं भवतीत्यभिज्ञा आहुः ।। अतः सर्पराज्ञीभिः स्तोत्रे
कृते सत्यनन्तरमेव होता प्रथमः पुरोगामी सन्प्राचीनावीती भूत्वा
मार्जालीयं धिष्ण्यं परितो गच्छेत् । किं कुर्वन्त्योऽस्य कौष्ट्येत्यादिका
यामीर्ऋचोऽनुब्रुवन् । ततोभूमिर्भूम्नेत्यादिकाः सर्पराज्ञीर्ब्रूयात् । तथा सति
यमविषयाभिर्भूमिविषयाभिश्च लोकद्वयेऽप्येनं प्रतिष्ठापयन्ति । अपि चैनं
मृतं सत्रिणं धुवन्त्येव वस्त्रधूननादिभिरितरशवोपचारैरुपचरन्त्येव । अपि
चास्मै मृतयजमानाय निह्नुवत एव वियोगासहिष्णुत्व-
प्रलापादिभिरपलन्त्येव ।।
मार्जालीयपरिभ्रमणस्याऽऽवृत्तिं विधत्ते-