तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
DevanagariSanskritpublished914 पृष्ठ
पृष्ठ 879, कुल 914 में से
संदर्भ में पढ़ेंपृष्ठ 879४८७ परिशिष्टत्वेन संगृहीतः— [ अनु० ६१ ]
४८७ परिशिष्टत्वेन संगृहीतः— [ अनु० ६१ ]
विविद्व्यथा इति । “विषॢ व्याप्तौ” इति धातोरुत्पन्नोऽयं शब्दः । विशेषेण विष्टि-
र्व्याप्तिर्यस्य ब्रह्मणस्तद्विविष्टिः । छान्दसः षकारस्य टकारः । तादृशं ब्रह्मोद्दिश्य स्वाहा
हुतमस्तु ।
ऋ॒ग्वि॒धा॒नाय॒ स्वाहा॑ ।
ऋग्विधानायेति । ऋचो विदधाति करोत्युत्पादयतीति ऋग्विधानः परमात्मा
तस्मै स्वाहा हुतमस्तु ।
क॒षोत्का॑य॒ स्वाहा॑ ।
कषोत्कायेति । “कष करणे” [इति] धातुः । कष्यते क्रियत इति कषो
नामरूपकर्मात्मकः कार्यप्रपञ्चस्तस्मिन्नुक्त उपकर्तुमुत्सुकः कषोत्कः परमेश्वरस्तादृशाय
सृष्ट्याद्युन्मुखाय परमेश्वराय स्वाहा ।
क्षु॒त्पि॒पा॒सा॒मलं॑ ज्ये॒ष्ठाम॒ल॒क्ष्मीर्नाश॑याम्य॒हम् ।
अभू॑तिमस॒मृद्धिं॑ च॒ *सर्वान्निर्णु॑द मे पा॒प्मानं॑ स्वाहा॑ ।
क्षुत्पिपासामलमिति । हे परमात्मन्नहं त्वत्प्रसादात्क्षुत्पिपासारूपं मलं लक्ष्म्या
ज्येष्ठामग्रजामलक्ष्मीमलक्ष्मीमभूतिमनैश्वर्यमसमृद्धिं धनधान्यादिसमृद्ध्यभावमेतान्सर्वा-
न्नाशयामि । किंच त्वं मे मदीयं पाप्मानं निर्णुद विनाशय । तदर्थं स्वाहा
तुभ्यं सुहुतमस्तु ।
अन्न॑मयप्राणम॒यम॑नोमयवि॒ज्ञान॑मयमान॒न्दम॑यमात्मा मे॑
शुध्य॑न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ꣳ स्वाहा॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषदि
षट्षष्टितमोऽनुवाकः ॥ ६६ ॥
अन्नमयेत्यादि । अन्नमयादयः पञ्च कोशा वारुण्यामुपनिषद्युक्ताः । पूर्ववदन्यत् ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां
याज्ञिक्यामुपनिषदि भाष्ये षट्षष्टितमोऽनुवाकः ॥ ६६ ॥
* अत्र घ. पुस्तके सर्वो निर्णुदित्येव पाठः ।
१३.८ ॥