तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 871, कुल 914 में से
संदर्भ में पढ़ें८७२ परिशिष्टत्वेन संगृहीतः- [ अनु० ५९ ]
अथैकोनषष्टितमोऽनुवाकः ।
दे॒व॒कृ॒तस्यैन॑सो॒ऽवय॑जनमसि॒ स्वाहा॑ । म॒नु॒ष्य॑कृत-
स्यैन॑सो॒ऽवय॑जनमसि॒ स्वाहा॑ । पि॒तृकृ॑त॒स्यैन॑-
सो॒ऽवय॑जनमसि॒ स्वाहा॑ । आ॒त्म॒कृ॒तस्यैन॑सो॒ऽव-
य॑जनमसि॒ स्वाहा॑ । अ॒न्य॒कृ॒तस्यैन॑सो॒ऽवय॑जनमसि॒
स्वाहा॑ । अ॒स्म॒त्कृ॒तस्यैन॑सो॒ऽवय॑जनमसि॒ स्वाहा॑ ।
यदिवा॒ च नक्तं॒ चैन॑श्चकृ॒म तस्या॑वय॑जनमसि॒
स्वाहा॑ । यत्स्व॒पन्त॑श्च॒ जाग्र॑तश्चैन॑श्चकृ॒म तस्या॑वय-
जनमसि॒ स्वाहा॑ । यत्सु॒षु॒प्त॑श्च॒ जाग्र॑तश्चैन॑श्चकृ॒म
तस्या॑वय॑जनमसि॒ स्वाहा॑ । यदि॒द्वाꣳ॑सश्चावि॒-
द्वाꣳ॑सश्चैन॑श्चकृ॒म तस्या॑वय॑जनमसि॒ स्वाहा॑ ।
एन॑स एन॑सो॒ऽवय॑जनमसि॒ स्वाहा॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषद्ये-
कोनषष्टितमोऽनुवाकः ॥ ५९ ॥
देवकृतस्येति । देवकृतस्यैनस इत्यादिषु यद्वो देवा इत्यतः प्राक्तनेष्वेकादशसु
मन्त्रेषु हविर्ग्रहीतृदेवताया अप्रतीतेरग्निर्देवतात्वेनाङ्गीकर्तव्यः, सर्वदेवताप्रधानत्वादग्नेः ।
तत्र क्रमेण षड्विधुरवैश्वदेवेऽपि विनियुक्ताः । तथा चायमर्थः । हे आज्य त्वमेनस्-
पापस्यावयजनं निवारकमसि । अवपूर्वो यजतिर्निवारणार्थः सर्वत्र । तदर्थमिदमाज्य-
मग्नये स्वाहा सुहुतमस्तु । यद्वा हेऽग्ने त्वमेन सोऽवयजनं निवारकोऽसि । लिङ्गव्य-
त्ययः । तदर्थमिदमाज्यं तुभ्यं स्वाहा सुहुतमस्तु । एवमुत्तरत्रापि वाक्यार्थः । एनसः
कीदृशस्य । देवाय कृतं देवकृतं तस्य देवकृतस्य । दैवेषु कर्मस्वङ्गवैकल्यादिरूपस्ये-
त्यर्थः । देवैर्द्योतनशीलैरस्मदिन्द्रियैः कृतस्येति वा । मनुष्यार्थं कृतं मनुष्यकृतं तस्य
धिक्कारान्नप्रदानाद्यभावरूपस्य । पितृकृतस्य पैतृकेषु कर्मस्वङ्गवैकल्यादिरूपस्य ।
आत्मकृतस्य स्वयंकृतस्यागम्य(ग्या)गमनादेः । अन्यकृतस्यास्मद्भार्यादिकृतस्य ।
अस्मत्कृतस्यास्मज्ज्ञातिवर्गकृतस्य । किंच दिवा नक्तं रात्रिंदिवं यदेनश्चकृम कृतवन्त-
स्तस्य । स्वपन्तः स्वप्नावस्थामनुभवन्तो जाग्रतो जागरूकाश्च यदेनो नानाविधं पापं
चकृम तस्य । सुषुप्तो व्यत्ययेन सुषुप्ताः सुषुप्त्यवस्थामनुभवन्तः सन्तो यदेनश्चकृम
[ घ. ७६ ]