सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 866, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 866

[अनु० ९०-९१ ] सभाष्यो दशमप्रपाठकः । ८६७

इदं सर्वैस्त्रैवर्णिकैः प्रत्यक्षत्वेनाधीयमानम् । किंचायनमस्माभिः संपादितं मोक्षमार्गं मा
विवधीर्मा हिंसय । किंच दातुं विक्रमस्व पराक्रमं कुरु, दातुमुद्यमं कुर्वित्यर्थः ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां
याज्ञिक्यामुपनिषदि भाष्य एकोनपञ्चाशोऽनुवाकः ॥ ४९ ॥
अथ पञ्चाशोऽनुवाकः ।
श॒ल्कैर॒ग्निमि॑न्धा॒न उ॒भौ लो॒कौ स॑नेमह॒म् ।
उ॒भयो॑र्लो॒कयो॑र्ऋ॒द्ध्वाऽति॑ मृ॒त्युं त॑राम्य॒हम् ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनि-
षदि पञ्चाशत्तमोऽनुवाकः ॥ ५० ॥
शल्कैरिति । हे भगवञ्शल्कैः समिद्रूपैः शुष्ककाष्ठैरग्निमाहवनीयादिकमिन्धानो
दीपयन्नहमुभौ लोकाविहपरलक्षणौ सनें प्राप्नुयां त्वदनुग्रहात् । एतेन लोकद्वयं सत्क-
र्मणा फलतीत्युक्तं भवति । अत एवोभयोर्लोकयोर्व्यत्ययेनोभौ लोकानृद्ध्वा लब्ध्वा
मृत्युमहमतीतराम्यमृतो भवामि । यावदायुरौहिकान्भोगान्भुक्त्वाऽन्ते देवो भवामीत्य-
भिप्रायः ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां
याज्ञिक्यामुपनिषदि भाष्ये पञ्चाशोऽनुवाकः ॥ ५० ॥
अथैकपञ्चाशोऽनुवाकः ।
मा छि॑दो मृत्यो॒ मा व॑धी॒र्मा मे॒ बलं॒ विवृ॑हो॒ मा प्रमो॑षीः ।
प्र॒जां मा मे॑ रीरिष॒ आयु॑रुग्र नृ॒चक्ष॑सं त्वा ह॒विषा॑ विधेम ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषद्ये-
कपञ्चाशोऽनुवाकः ॥ ५१ ॥
मेति । हे मृत्यो हे उग्र क्रूर त्वमस्म * त्संबुद्धिं मा छिदो मा विच्छेदय ।
अस्मत्सत्कर्मानुष्ठानं मा वधीर्मा हिंसय । मे मम शरीरं बलं मा विवृहो मा
पीडय । अस्मदीयपरलोकसाधनं मा प्रमोषीर्मा चोरय । मे प्रजामायुश्च मा

  • सम्यग्बुद्धिं सम्यग्बोधमिति यावत् ।
    १ ख. ॰ण । २ ख. ष्टौ ।