सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 865, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 865

८६६ परिशिष्टत्वेन संगृहीतः— [अनु ०४८-४९]
अथाष्टचत्वारिंशोऽनुवाकः ।
अ॒मु॒त्र॒भू॒यादध॒ यद्य॒मस्य॒ बृह॑स्पते अ॒भिश॑स्तेर्मुञ्चः ।
प्रत्यौ॑हताम॒श्विना॑ मृ॒त्युम॒स्मद्देवा॒नाम॑ग्ने भि॒षजा॒ शची॑भिः ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोप-
निषद्यष्टचत्वारिंशोऽनुवाकः¹ ॥ ४८ ॥
अमुत्रभूयादिति । बृहतां वेदवाचां पतिः पालको बृहस्पतिस्तत्संबुद्धौ हे बृहस्पते
परमात्मन्यमस्य संबन्धि यद्द्वयं तन्मान्माममुञ्चो मोचय । अभिशस्तेरपयशसोऽपि
माममुञ्चः । एतद्द्वयान्मोचयित्वाऽथानन्तरम् । अमुत्रभूयात् । व्यत्ययः । अमुत्र-
भवेन परलोकभवेन सुखेन मां संयोजयेति शेषः । किंचाश्विनाऽश्विनौ देववैद्यावस्मा-
न्मत्तः सकाशान्मृत्युं प्रत्यौहतां दूरी कुरुताम् । हेऽग्ने देवानां संबन्धिना भिषजा
वैद्यभूतेन त्वयाऽहं रक्षणीयोऽस्मीति शेषः। शचीभिरिन्द्रपत्नीभिः संयोजयेत्यपि शेषः।
हविर्नयनद्वारा देवताक्षुन्निवारकत्वादग्नेर्भिषक्त्वं द्रष्टव्यम् ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां
याज्ञिक्यामुपनिषदि भाष्येऽष्टचत्वारिंशोऽनुवाकः ॥ ४८ ॥
अथैकोनपञ्चाशोऽनुवाकः ।
हरँि॒५ हर॑न्त॒मनु॑यन्ति दे॒वा विश्‍व॑स्येशा॒नं वृ॑ष॒भं म॑ती॒नाम् ।
ब्रह्म॑ स॒रूप॒मनु॑ मे॒दमा॑गा॒दय॑नं॒ मा विव॑धी॒र्वि क्र॑मस्व ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिष-
द्येकोनपञ्चाशोऽनुवाकः² ॥ ४९ ॥
हरिमिति । हे परमात्मंस्त्वां सर्वे देवा अनुयन्ति भृत्यभावेनानुसरन्ति । त्वां
कथंभूतम् । हरिं विष्णुरूपम् । तथा भक्तानां पापं हरन्तम् । विश्वस्य जगत ईशा-
नम् । मतीनां सर्वप्राणिबुद्धीनां वृषभं श्रेष्ठत्वेन नियन्तारं पुण्यापुण्ययोः सर्वप्राणि-
बुद्धिप्रेरकमिति यावत् । तदुक्तम् – “धियो यो नः प्रचोदयात् ” इति । किंच त(त्व)-
दनुग्रहाद्ब्रह्म वेदचतुष्टयं मा मामन्वागादन्वागच्छतु । कथंभूतं ब्रह्म, समान्दपशब्दा-
दिवैषम्यरहितानि रूपाणि प्रकृतिप्रत्ययादीनि यस्य तत्सरूपम् । पुनः कथंभूतम् ।
१ ख. ३५ । २ ख. २६ ।