सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 864, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 864

[ अनु० ४० ] सभाष्यो दशमप्रपाठकः । ८५९
द्यौरपि मध्वस्तु । अतिवृष्ट्यादिप्रातिकूल्यरहिताऽस्तु । “ द्यौः पिता पृथिवी माता ”
इति मन्त्रान्तराद्दिवः पितृत्वम् । वनस्पतिरत्र ( पि ) चूतपनसादिर्नोऽस्मान्प्रति मधु-
मान्मधुरफलोपेतो जीवनहेतुरस्तु । सूर्योऽपि प्रभूतं संतापमकृत्वा मधुमान्माधुर्येणा-
नुकूलप्रकाशनेन युक्तोऽस्तु गावोऽपि नोऽस्मान्प्रति माध्वीर्जीवनहेतुमधुरक्षीरोपेता
भवन्तु ।
अस्य त्रिसुपर्णमन्त्रस्य महिमानं दर्शयति—
य इ॒मं त्रि॑सुप॒र्णमया॑चि॒तं ब्रा॑ह्म॒णाय॑ द॒द्यात् ।
भ्रू॒ण॒ह॒त्यां वा ए॒ते घ्न॑न्ति । ये ब्रा॑ह्म॒णास्त्रि॑सु-
प॒र्णं पठ॑न्ति । ते सोमं॑ प्राप्नु॑वन्ति । आ
स॒ह॒स्रात्प॒ङ्क्तिं पु॑नन्ति । ओम्, इति॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषद्ये-
कोनचत्वारिंशोऽनुवाकः ॥ ३९ ॥
ब्राह्मणगर्भस्य राजगर्भस्य वा हननं भ्रूणहत्या । अन्यत्पूर्ववत् ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययु-
क्तायां याज्ञिक्यामुपनिषदि भाष्य एकोनचत्वारिंशोऽनुवाकः ॥ ३९ ॥
═════
अथ चत्वारिंशोऽनुवाकः ।
तृतीयं त्रिसुपर्ण[ मन्त्र ]माह—
ब्रह्म॑ मेध॒वा । मधु॑ मेध॒वा । ब्रह्म॑मे॒व मधु॑ मेध॒वा ।
ब्रह्मा॑ दे॒वानां॑ पद॒वीः क॑वी॒नामृषि॒र्विप्रा॑णां महि॒षो
मृ॒गाणा॑म् । श्ये॒नो गृध्रा॑णा॒ꣳ॒ स्वधि॑ति॒र्वना॑ना॒ꣳ॒ सोम॑:
प॒वित्र॒मत्ये॑ति॒ रेभन्॑ । ह॒ꣳ॒सः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धो-
ता॑ वेदि॒षदति॑थिर्दुरोण॒सत् । नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो॑मसद॒ब्जा
गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत्, इति॑ ॥
मेधवा, मेधो यज्ञः सोऽस्यास्तीति * मेधवान् । यज्ञदानादिसाध्यविविदिषापूर्वकत्वा-

  • मूले छान्दसेन डादेशेन तथा प्रयोग इत्याशयः ।
    । च. ५ ।