तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 863, कुल 914 में से
संदर्भ में पढ़ें८५८ परिशिष्टत्वेन संगृहीतः— [ अनु० ३९
वश्चन्ति तां पङ्क्तिं सहस्रपर्यन्तं पुनन्ति शुद्धां कुर्वन्ति । तस्मादों प्रणवप्रतिपाद्यः पर-
मात्मैव त्रिसुपर्णमन्त्रस्य देवतेत्यर्थः ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययु-
क्तायां याज्ञिक्यामुपनिषदि भाष्येऽष्टात्रिंशोऽनुवाकः ॥ ३८ ॥
अथैकोनचत्वारिंशोऽनुवाकः ।
द्वितीयं त्रिसुपर्ण[मन्त्र]माह—
ब्रह्म॑ मे॒धया॑ । मधु॑ मे॒धया॑ । ब्रह्म॑मेव मधु॑ मे॒धया॑ । अ॒द्या नो॑
दे॒व स॑वितः प्र॒जाव॑त्सावीः सौभ॑गम् । परा॑ दु॒ष्वप्नि॑-
यँ॑ सुव । विश्वा॑नि देव सवितर्दुरि॒तानि॒ परा॑सुव । यद्भ॒द्रं
तन्म॒ आसु॑व । मधु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः ।
माध्वी॑र्नः स॒न्त्वोष॑धीः । मधु॒ नक्त॑मु॒तोषसि॒ मधु॑म॒त्पार्थि॑वँ॑
रज॑: । मधु॒ द्यौर॑स्तु नः पि॒ता । मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माँ॑
अस्तु॒ सूर्य॑: । माध्वी॒र्गावो॑ भवन्तु नः, इति ।
यद्ब्रह्म सर्वजगत्कारणं सर्ववेदान्तवेद्यं तन्मेधया गुरूपदिष्टमहावाक्यतदर्थधार-
णशक्त्या लभ्यतामिति शेषः । मध्वित्यादि पूर्ववत् । हे सवितः प्रेरक देवाद्या-
स्मिन्दिने नोऽस्माकं विद्यार्थिनां प्रजावच्छिष्यप्रशिष्यादित्रयो(प्रजो)पेतं सौभग-
माचार्यरूपं भाग्यं सावीः प्रेरय यच्छेत्यर्थः । [ दुष्वप्नियं ] दुःस्वप्नियं दुःस्वप्न्यं दुष्ट-
स्वप्नसदृशं द्वैतप्रतिभासं परासुव निराकुरु । अपि च हे सवितः प्रेरक देव दुरितानि
ज्ञानप्रतिबन्धकानि पापानि विश्वाानि परासुव निराकुरु । भद्रं कल्याणमसंभावनावि-
परीतभावनारहितं तत्त्वज्ञानं यदस्ति तन्मे मह्यमुपासकायाऽऽसुव साकल्येन प्रयच्छ ।
[ ऋतायते, ऋतं परं ब्रह्म तदिच्छते मह्यं ] वाता वायवो मधु माधुर्योपलक्षितं सुखं
यथा भवति तथा वान्त्विति शेषः । प्रबले तु वायौ रोगोत्पत्त्या तत्त्वज्ञानविघ्नः
संपद्यतेऽतः स मा भूदिति वायोरानुकूल्यं प्रार्थ्यते । एवमुत्तरत्रापि तत्तदानुकूल्यं द्रष्ट-
व्यम् । सिन्धवो नद्यो मधु क्षरन्ति मधुरमारोग्यकरमुदकं संपादयन्त्वित्यर्थः । ओष-
धीर्व्रीहियवादयोऽपि नोऽस्माकं माध्वीर्मधुराः पथ्यरूपाः सन्तु । नक्तं रात्रावुतापि
चोषसि प्रभाते दिवसेऽपि विद्यार्थिनो मे मधु मधुरमनुकूलं सुखमस्तु । कालकृतो
विघ्नो मा भूदित्यर्थः । पार्थिवं रजः पृथिव्यामधःस्थितं शयनादिस्थानगतं रजोऽपि
मधुमन्माधुर्योपेतं कण्टकपाषाणादिरहित्येनानुकूलमस्तु । नोऽस्माकं पिता पितृसदृशी