तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 862, कुल 914 में से
संदर्भ में पढ़ें[ अनु० ३८ ] सभाष्ये दशमप्रपाठकः । ८५७
अथाष्टात्रिंशोऽनुवाकः ।
अथ ज्ञानप्रतिबन्धकब्रह्महत्यादिपापनिवृत्तिहेतवस्त्रिसुपर्णनामका मन्त्रा उच्यन्ते ।
तत्र प्रथममन्त्रमाह—
ब्रह्म॑मेतु माम् । मधु॑मेतु माम् । ब्रह्म॑मेव मधु॑मेतु माम् ।
यास्ते॑ सोम प्रजा व॒त्सोऽभि सो अहम् । दु॒ष्ष्वप्न॒ह-
न्दुरु॑ष्षह । यास्ते॑ सोम प्रा॒णाग्स्ताञ्जु॑होमि, इति ।
ब्रह्म परं तत्त्वं मामेतु प्राप्नोतु । मधु परमानन्दमाधुर्योपेतं वस्तु मामेतु प्राप्नोतु
तदेव पुनः प्रार्थ्यते । मधुरं ब्रह्मैव मामेतु, न त्वन्यत्क्षुद्रदेवतादिकमिति भावः ।
हे सोमोमा ब्रह्मविद्या तया सह वर्तमान परमात्मंस्ते तव याः प्रजा देवमनुष्यादयः
सन्ति ता अभिलक्ष्य स तादृशस्त्वत्सेवको वत्सो बालक एतासां त्वदीयप्रजानां मध्ये
बालवदहं त्वदीयक़रुणायोग्यः । अतो हे दुष्ष्वप्नहन्संसाररूपस्य दुःस्वप्नस्य घातक
परमेश्वर दुरुष्षह दुःसहं भवं विनाशयेत्यर्थः । हे सोम परमात्मंस्ते त्वदीयाः [प्राण-
वृत्तयो याः सन्ति तान्वृत्तिप्राणांस्त्वयि जुहोमि प्रक्षिपामि । मदीयमनोवागादयः] प्राणा-
स्त्वया निर्मितत्वात्त्वदीया अतस्त्वय्येवोपसंहरामि । विषयेभ्य इन्द्रियाणि निरुध्य त्वदे-
कचित्तो भवामीत्यर्थः ।
उक्तस्य त्रिसुपर्णमन्त्रस्य माहात्म्यं ब्राह्मणरूपेण दर्शयति---
त्रिसु॑पर्णमयाचि॒तं ब्रा॑ह्म॒णाय॑ दद्यात् । ब्र॑ह्मह॒त्यां वा
ए॒ते घ्न॑न्ति । ये ब्रा॑ह्म॒णास्त्रिसु॑पर्णं पठ॑न्ति । ते सोमं॑
प्राप्नु॑वन्ति । आ स॒हस्रा॑त्प॒ङ्क्तिं पु॑नन्ति । ओम्, इति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणीप-
निषद्यष्टात्रिंशोऽनुवाकः ॥ ३८ ॥
विद्यान्तराणि नापृष्टः कस्यचिद्ब्रूयादिति शास्त्रमनुसृत्य शिष्येण याच्ञायां कृतायां
पश्चादुपदिशन्ति । इमं तु त्रिसुपर्णमन्त्रं शिष्ययाच्ञामन्तरेणैव ब्राह्मणायोपदिशेत् ।
तेनोपदेशेन ये ब्राह्मणास्त्रिसुपर्णं पठन्ति सर्वदा त्रिसुपर्णमन्त्रं जपन्त्येते पुरुषा
ब्रह्महत्यां विनाशयन्ति । ते सोमं* प्राप्नुवन्ति । ये तस्यां(ते यस्यां) पङ्क्ता-
- सोमयागफलम् ।
१ व. ५३।
१०८