सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 861, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 861

८५६ परिशिष्टत्वेन संगृहीतः— [अनु० ३७]
पुनः कथंभूता । प्रचोदयन्ती, अन्तर्यामिरूपेण प्राणिमात्रं प्रेरयित्री । पवने व्यत्ययेन
पवनः । अत्र लुप्तोपमोपादानम् । यथा प्राणवायुश्चतुर्विधं प्राणिजातं प्रेरयतीतस्ततो
गमनागमनादिकं कारयति तथेति । तथा वेदमाता चतुर्णां वेदानां जननी । वरान्स्वो-
पासकेभ्यो वाञ्छितार्थान्ददातीति वरदा । कथंभूता सती, मयोपासकेन स्तुतो बहुल-
ग्रहणाद्व्यत्ययेन स्तुता सतीत्यर्थः ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां
याज्ञिक्यामुपनिषदि भाष्ये षट्त्रिंशोऽनुवाकः ॥ ३६ ॥

अथ सप्तत्रिंशोऽनुवाकः ।
पूर्वोक्तोपासनास्वसमर्थस्याऽऽदित्यदेवताविषयं जप्यं मन्त्रमाह—
घृ॒णिः सूर्य॑ आ॒दि॒त्यो न प्रभा॑ वा॒त्यक्ष॑रम् । मधु॑
क्षरन्ति॒ तद्र॑सम् । स॒त्यं वै तद्र॑स॒मापो॒ ज्योती॒
रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुव॒ः सुव॒रोम् , इति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषदि
सप्तत्रिंशोऽनुवाकः ॥ ३७ ॥
भगवानादित्यो वाति वैहायसेन मार्गेणाहर्दिवं गच्छति लोकानुपकर्तुम् ।
किंविधः । जगत्प्रसवहेतुत्वात्सूर्यः । दीप्तिमत्त्वाद्धृणिः । क्षरणराहित्येन नित्यत्वा-
दक्षरमक्षरः । केव, प्रभा न । नकार उपमार्थः । आदित्यसंबन्धिनी प्रभेव । आदि-
त्यस्योपमानान्तराभावात् । स्वप्रभा गोलकीभूता व्योममार्गेण गच्छति चेद्यथा प्रभा-
वान्(तथाऽ)यमित्यभूतार्थमुपमानम् । अपिच तद्रसं तस्मात्पूर्वोक्तादादित्याज्जन्यं रस-
मुदकं मधु मधुरं यथा तथा क्षरन्ति नद्यो वहन्ति । आदित्यलब्धवृष्ट्युदकमेव नद्यो
वहन्ति, अन्यथा भूमावुदकाभाव इति भावः । उत्तरार्धेनाऽऽदित्यब्रह्मणः सर्वात्मक-
त्वमुच्यते । तदादित्यलक्षणं ब्रह्म सत्यं यथार्थभाषणम् । रसं मधुरादिरसजातम् ।
आपः सिन्धुनादिगतमुदकम् । ज्योतिश्चन्द्राग्न्यादि । रसः पदार्थमात्रसारः ।
अमृतं सुधा । ब्रह्म त्रयीविद्या । भूर्भुवः सुवस्त्रयो लोकाः । ओमोङ्कारः । एतत्सर्व-
मादित्य एवेति मनसा विभावयेदिति भावः ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां
याज्ञिक्यामुपनिषदि भाष्ये सप्तत्रिंशोऽनुवाकः ॥ ३७ ॥
˙ १. ष. ५५ ।