सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 860, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 860

[ अनु० ३६ ] सभाष्ये दशमप्रपाठकेः । ८५
अथ षट्त्रिंशोऽनुवाकः ।
जपादूर्ध्वं गायत्रीविसर्जनमन्त्रमाह—
उ॒त्त॒मे शि॑खरे जा॒ते भू॒म्यां पर्व॑तमूर्ध॒नि ।
ब्रा॒ह्म॒णेभ्यो॒ऽभ्य॑नुज्ञा॒ता गच्छ॑ देवि य॒थासु॑खम्, इति ॥
भूम्यामवस्थितो यः पर्वतो मेरुनामकस्तस्य मूर्ध्न्युपरिभागे यदुत्तमं शिखरमस्ति*
तस्मिंस्तथाविधा गायत्री देवता तिष्ठति तस्मात्कारणाद्देवि ब्राह्मणेभ्यस्त्व[दुपासके-
भ्यस्त्व]दनुग्रहेण परितुष्टेभ्योऽनुज्ञानमभिव्याप्य यथासुखं स्वकीयं सुखमनतिक्रम्य
स्वस्थाने तस्मिन्नुत्तमे शिखरे गच्छ ।
स्तु॒तो मया वरदा वेदमा॒ता प्र॒चोद॑यन्ती पव॑ने द्वि॒जाता ।
आयुः॑ पृथि॒व्यां द्रवि॑णं ब्र॑ह्मव॒र्चसं मह्यं॑ द॒त्त्वा प्र॒जातुं ब्रह्म॑लोकम्, इति॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषदि
षट्त्रिंशोऽनुवाकः ॥ ३६ ॥
स्तुत इति । पूर्वस्मिन्मन्त्रेऽपरोक्षतयोक्तोऽर्थोऽस्मिन्मन्त्रे परोक्षतया स्पष्टः क्रियते ।
अत्रेदं वैदिकं रहस्यम् । ब्रह्मलोक आदित्यमण्डलं चोभयमपि गायत्र्या अवस्थानं विक-
ल्पेनान्यतरादिति केचिदाचक्षते । पु(अ)त एवास्माभिः पूर्वस्मिन्मन्त्रेणानु(न्त्रेऽनु)क्तमप्या-
दित्यमण्डलं गायत्रीनिवासत्वेन मत्वाऽ+ध्याहृत्य व्याख्यातम् । एतस्मिंस्तु मन्त्रेः(न्त्रे)
[श्रुतिः] स्वयमेव भगवत्या गायत्र्या वसत्तित्वेन ब्रह्मलोकं ब्रवीति । तथाचेत्थं व्याख्या
तत्र भवति । भगवती गायत्री ब्रह्मलोकं ब्रह्मणो भारतीपतेर्लोकं प्रयात्विति वाक्यप-
रिशेषः । कीदृशं ब्रह्मलोकम् । अतलादिभ्योऽधस्तनेभ्यो भूरादिभ्य ऊर्ध्वतनेभ्यः
समस्तेभ्यो लोकेभ्यः प्रकृष्टत्वेन जातः परमात्मनः सकाशादुत्पन्न इति प्रजातस्तम् ।
प्रजातमिति वक्तव्ये प्रजातुमिति प्रयोगश्छान्दसः । किं कृत्वा, दत्त्वा । किम् ,
आयुः, शताब्दात्मकमुपजीवनम् । पुनर्द्रविणं सुवर्णमणिमुक्तादि । पुनर्ब्रह्मवर्चसं
स्वाध्यायाध्ययनतदर्थविचारतदर्थानुष्ठानै(ष्ठाने)र्जनितं मुखतेजः । यद्दृष्ट्वा लोका आचक्षते
देदीप्यमानोऽयं साक्षाज्ज्वलन्निव पावक इति । कस्मै मह्यम् । कथंभूताय पृथिव्यां
विद्यमानाय । कथंभूता गायत्री । द्विजाता द्विजातिभिस्त्रैवर्णिकैरुपास्यमाना । यद्वा
द्वयोः सूर्यमण्डलब्रह्मलोकयोर्जाता प्रादुर्भूता । “जनी प्रादुर्भावे ” अस्मान्निष्ठाप्रत्ययः ।

  • जातपदस्य फलितव्याख्यानमस्तीत्येतत् । + पूर्वत्र त्वेवं न दृश्यते । एतदनुरोधेन तत्तत्र
    यावदपेक्षितं करणीयम् ।
    १ ष. ५३ ।