तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 850, कुल 914 में से
संदर्भ में पढ़ेंयास्याऽऽहु॑तयस्तिष्ठ॒न्त्यथो॒ प्रति॑ष्ठित्यै, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
षड्विंशोऽनुवाकः ॥ २६ ॥
अग्निहोत्रे हविर्हूयते यया दर्व्या सेयमग्निहोत्रहवणी, सा च वैकङ्कती विकङ्क-
ताख्येन वृक्षेण निष्पादिता यस्याग्निहोत्रिणो भवत्यस्याग्निहोत्रिण आहुतयस्तयाऽग्नि-
होत्रहवण्या प्रक्षिप्ताः सत्यः प्रतितिष्ठन्त्येव फलप्रदा भवन्त्येव । अथो अपि च
प्रतिष्ठित्त्यै, अनुष्ठातुश्चित्तशुद्धिद्वारा तत्त्वज्ञानप्रतिष्ठार्थं संपद्यन्ते । मुमुक्षोश्चित्तशुद्धिद्वारा
वेदोक्तानां कृत्स्नकर्मणां मोक्षसाधनत्वं द्योतयितुमपलक्षणत्वेन कर्माङ्गभूतो विकङ्कतवृक्षो
विहितः ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां
याज्ञिक्यामुपनिषदि भाष्ये षड्विंशोऽनुवाकः ॥ २६ ॥
अथ सप्तविंशोऽनुवाकः ।
चित्तशुद्धिहेतूनां कर्मणां संग्रहेणोपयोगमस्मिन्मोक्षप्रकरणे सूचयित्वा प्रतिबन्धनिवा-
रकान्रक्षोघ्नन्मन्त्राञ्जप्यत्वेनाभिधत्ते —
कृ॒णुष्व पाज॒ इति॒ पञ्च॑, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
सप्तविंशोऽनुवाकः ॥ २७^२ ॥
यस्य वैकङ्कत्यग्निहोत्रहवणीत्यनुवाकान्ते कृणुष्व पाज इति पञ्चेति प्रतीकत्वेन
पठिताः संहितायां प्रथमकाण्डे द्वितीयप्रपाठके पठिताः पञ्चर्चो [ जपितव्या इति शेषः ।
ताश्च ] व्याख्यास्यामः । कृणुष्व पाज इति पञ्चानुष्टुप्छन्दस्का वामदेवदृष्टा अग्निदेव-
ताकाः । अस्मिन्नृक्पञ्चके भगवानग्निरभिस्तूयते ।
कृ॒णुष्व पाजः॒ प्रसि॑तिं॒ न पृ॒थ्वीं या॒हि राजे॒वाम॑वा॒ँ इभे॑न ।
तृ॒ष्वीमनु॒ प्रसि॑तिं द्रूणा॒नोऽस्ता॑ऽसि॒ विध्य॑ रक्षस॒स्तपि॑ष्ठैः ॥
कृणुष्वेति । हेऽग्नेऽस्मदीयकामक्रोधादिशत्रुसंहाराथं पाजो बलमस्मभ्यं कृणुष्व कुरुष्व
तत्र दृष्टान्तः । पृथ्वीं विस्तीर्णां प्रसि॑तिं न प्रसितिमिव जालमिव । नकार उपमार्थः । सीयन्ते
बध्यन्ते पक्षिणो यया प्रकर्षेण सा प्रसितिर्जालम् । “ षिव्बन्धने ” इति धातुः । यथा
पक्षिभक्षका निषादास्तद्बन्धनार्थं जालं विस्तीर्णं प्रसारयन्ति तथा भो भगवन्नग्ने बलं
१ घ. ५३ । २ व. ५४ ।