तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 851, कुल 914 में से
संदर्भ में पढ़ें[अनु० १७]
प्रसारयेत्यर्थः । ततो राजेव नृप इवामवान्सहायवान्सन्निभेन गजेन तदुपलक्षितचतुरङ्ग-
बलेन शत्रून्प्रति याहि गच्छ । अमन्ति भजन्ति स्वामिनमित्यमाः सेवकाः, तद्वानम-
वान् । यथा राजा चतुरङ्गबलसहितः सन्शत्रून्संहर्तुं गच्छति तथा त्वमपि भो भगव-
न्नग्नेऽस्मदीय शत्रून्संहर्तुं गच्छेत्यर्थः । त्वं कथंभूतः । तृष्वीं प्रसितिमनु द्रूगानः । अत्र
विभक्तिव्यत्ययः । तृष्व्या शीघ्रं संहारसाधनया प्रसित्या शत्रूननु पलायनकाले पश्चा-
द्रूगाणो हिंसयन् । “ द्रु हिंसायाम् ” इति धातुः । अस्ता । “ असु क्षेपे ” इति
धातुः । बाणानां प्रक्षेपकोऽसि । यस्मादेवं तस्माद्रक्षसो दैतेयांस्तपिष्ठैरतिसंतापहेतुभि-
रायधैर्विध्य ताडय । अस्मिन्मन्त्रे बाह्याभ्यन्तरशत्रुनिवृत्तिरग्निप्रार्थनायाः फलम् ।
तव॑ भ्रमास॑ आशु॒या प॑त॒न्त्यनु॑स्पृश धृष॒ता शोशु॑चानः ।
तपूँष्यग्ने जु॒ह्वां पत॒ङ्गा न संदि॑तो॒ विसृ॑ज॒ विष्व॑गुल्काः ॥
तवेति । भो भगवन्नग्ने भ्रमासः सर्वत्र प्राणिनः पीडयितुं भ्रमणशीला आशुयाऽहोरा-
त्रयोः शीघ्रं यान्तीतस्ततः संचरन्तीत्याशुया । जसो लोपश्चान्दसः । एवंविधा ये पिशाचाः
पतन्ति । “ पत्लृ गतौ ” । इतस्ततो गच्छन्ति । तानपतङ्गानपतनशीलानिपिशाचांस्तपूंषि
प्रपञ्चतपनशीलानि रक्षांसि च धृषता प्रगल्भेन । “ जिधृषा प्रागल्भ्ये ” इति धातुः ।
तव तेजसेति शेषः । अनुस्पृश दहेत्यर्थः । त्वं कथंभूतः । शोशुचानोऽन्तर्बहि शत्रून्-
तिदुःखयन् । यद्वा शोशुचानो देदीप्यमानः । “शुच दीप्तौ” इति धातुः । पुनः कथं-
भूतः । जुह्वा स्रुचा हूयमानघृतपुरोडाशादिरूपहविष्या(ष्मा)निति शेषः । पुनः कथंभूतः।
“दो अवखण्डने” । राक्षसैः सम्यङ् न दितः खण्डितोऽसंदितः । एवंविधस्त्वं शत्रूणां
बाह्यानामान्तराणां च विष्वगुपर्यधस्तिर्यक्सर्वत उल्का अलातज्वाला विसृज प्रसार-
येत्यर्थः ।
प्रति॒ स्पशो॒ विसृ॑ज॒ तूर्ण॑तमो भवा॑ पा॒युर्वि॒शो अ॒स्या अद॑ब्धः ।
यो नो॑ दू॒रे अ॒घशं॑सो॒ यो अन्त्यग्ने॒ मा कि॑ष्टे॒ व्यथि॒राद॑धर्षीत् ॥
.प्रतीति । भो भगवन्नग्ने तूर्णितमोऽतिक्षिप्रतमस्त्वं स्पशः । “स्पश बाधने” शकारान्तो
द्वितीयाबहुवचनम् । बाधकाञ्छत्रून्प्रति विसृज पाशैर्बद्ध्वा नयेत्यर्थः । किंचास्या अस्मदी-
याया विशः पुत्रादिप्रजायाः पायुः पाति रक्षतीति पायू रक्षको भव । किंच नोऽस्माकं
दूरेऽन्त्यन्तिके च योऽघशंसोऽघं पापं शंसतीच्छतीत्यघशंसः । “ शासि ” इच्छायाम् ।
तमपि पराकुर्विति शेषः । अहमप्यदब्धः शत्रुभिरनुपहिंसितो भवामि । “दम्भु हिंसा-
याम्” । किं च किः कोऽपि च्छान्दसोऽयं प्रयोगः । व्यथिर्व्यथको राक्षसस्ते तव पुर-
स्तान्माऽऽदधर्षीन्माऽऽधृष्टो भूदित्यर्थः । अभिदर्शनस्य राक्षसपिशाचादिपलायनहेतु-
त्वात् । तथा च नीतिशास्त्रम् —