तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 848, कुल 914 में से
संदर्भ में पढ़ेंAn accurate, line-by-line transcription of the Sanskrit page in Markdown with Vedic svara accents:
[ अनु० २३-२४ ] सभाष्यो दशमप्रपाठकः । ८४३
अथ त्रयोविंशोऽनुवाकः ।
पूर्वोक्तप्रकारेणोपासीनस्य पुरुषस्योपासननमस्कारार्थमेकामृचमाह—
ऋ॒तꣳ स॒त्यं परं॒ ब्रह्म॒ पुरु॑षं कृष्णपि॒ङ्गल॑म् ।
ऊ॒र्ध्वरे॑तं विरू॒पाक्षं वि॒श्वरू॑पाय॒ वै॒ नमो॒ नमः॑, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोप- १
निषदि त्रयोविंशोऽनुवाकः ॥ २३ ॥
यदेतत्परं ब्रह्म तत्सत्यमबाध्यम् । सत्यत्वं च द्विविधं व्यावहारिकं पारमार्थिकं
च । हिरण्यगर्भरूपं व्यावहारिकं सत्यं तन्निराकरणेन पारमार्थिकं सत्यं प्रतिपादयि-
तुमृतं सत्यमिति विशेष्यते । अत्यन्त सत्यमित्यर्थः । तादृशं ब्रह्म भक्तानुग्रहायोमा-
महेश्वरात्मक