सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 847, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 847

८४२ परिशिष्टत्वेन संगृहीतः— [ अनु० २२ ]
ह्मणोऽधि॑प॒तिर्ब्रह्मा॒ शिवो॑ मे' अस्तु सदाशि॒वोम्, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषद्ये-१
कविंशोऽनुवाकः ॥ २१ ॥
योऽयमूर्ध्ववक्त्रो देवः सोऽयं सर्वविद्यानामीशानो नियामकः । तथा सर्वभूता-
नामखिलप्राणिनामीश्वरो नियामकः । ब्रह्माधिपतिर्वेदस्याधिकत्वेन पालकः । तथा
ब्रह्मणो हिरण्यगर्भस्याधिपतिः तादृशो यो ब्रह्मा प्रवृद्धः परमात्मा सोऽयं मे ममा-
नुग्रहाय शिवः शान्तोऽस्तु । सदाशिवोम्, स एव सदाशिव ओमहं भवामि ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेय-
युक्तायां याज्ञिक्यामुपनिषदि भाष्य एकविंशोऽनुवाकः ॥ २१ ॥

अथ द्वाविंशोऽनुवाकः ।
पुनरपि तद्देवताकं मन्त्रान्तरमाह—
नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतयेऽ-
म्बिकापतय उमापतये पशुपत॑ये॒ नमो नमः, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोप-
निषदि द्वाविंशोऽनुवाकः ॥ २२ ॥
नमः शिवाय । कथंभूताय पशूनामाब्रह्मस्तम्बपर्यन्तानां पतिर्नायकः पशुपतिस्तस्मै ।
“ब्रह्माद्याः स्तम्बपर्यन्ताः पशवः परिकीर्तिताः ।
तेषां हि नायको यस्माच्छिवः पशुपतिः स्मृतः ”॥
[ इत्युक्तत्वात् ] उमायाः पतिरुमापतिस्तस्मै । उमाशब्दः कविभिर्व्याख्यातः—“उ
मेति मात्रा तपसे निषिद्धा पश्चादुमाख्यां सुमुखी जगाम ” इति । अम्बिकायाः पार्वत्याः
पतिरम्बिकापतिस्तस्मै । हिरण्योपलक्षितनवनिधिपालकत्वाद्धिरण्‍यपतिस्तस्मै । हिरण्य-
रूपाय तेजोमयाय । हिरण्यवदनवाप्या दुर्लभा वर्णा वेदाक्षराणि यस्मादुत्पद्यन्ते स
हिरण्यवर्णः । यथा दरिद्राणां हिरण्यं दुर्लभं तद्वत्प्राणिनां गुरुकुले स्थित्वा वेदाक्षराणां
दुर्लभत्वमिति भावः । हिरण्यबाहवे कनकायमानबाहुपलक्षितसर्वावयवाय नमः+ ॥
इति कृष्णयजुर्वेदीय तैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां
याज्ञिक्यामुपनिषदि भाष्ये द्वाविंशोऽनुवाकः ॥ २२ ॥

  • नमःशब्दद्वयं प्रत्येकं संबन्धद्योतनार्थमिति युक्तं पठितुम् ।
    १ घ. ३८ । २ घ. ३ ।