सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 815, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 815

८१० परिशिष्टत्वेन संगृहीतः— [ अनु० १ ]
म्भांसि विद्यन्तेऽस्मिन्नित्यर्णवो वापीकूपतटाकादिरजायत । समुद्रादर्णवादधि समुद्रा-
र्णवजन्मनः पश्चात्संवत्सर एकादशमासात्मको द्वादशमासात्मकस्त्रयोदशमासात्मकश्चा-
जायत । संवत्सरः कथंभूतः । अहोरात्राणि औपलक्षण्येन घटिकामुहूर्तप्रहरादि(दीं)श्च
विदधद्विदधानः कुर्वाण इति यावत् । पुनः कथंभूतः । वशी स्वाधीनकर्ता । कस्य,
विश्वस्य जगतः । कथंभूतस्य, मिषतो निमेषं कुर्वतः । उपलक्षणमेतदनिमिषत इत्य-
त्र(स्य) । व्यापारं कुर्वतोऽकुर्वतश्चराचरात्मकस्येति भावः । संवत्सरात्मा कालः परमा-
त्मनः सकाशादुत्पन्नः सन्त्सर्वं जगद्वशी करोतीत्यभिप्रायः । नन्वाधाराधेयभावेन विद्य-
मानं सर्वं ब्रह्माण्डं परमात्मोत्पादयामासेत्युक्तं तत्कथमाकारमुत्पादयामासेत्यत्राऽऽह ।
धाता परमेश्वरः सूर्याचन्द्रमसौ पुष्पवन्तौ पृथिवीमन्तरिक्षं दिवं सुवर्लोकत्रयस्थं
भोग्यजातम् । अथो अध इत्येतस्मिन्नर्थ ओदन्तमव्ययम् । अधस्ताद्विद्यमानं लोकसप्त-
कमपि यथापूर्वं पूर्वपूर्वकल्पेषु यथा यथाऽकल्पयदजनयत्तथा तथेदानीन्तने कल्पेऽप्य-
कल्पयदित्यर्थः । चकारावुक्तमनुक्तं समुच्चिन्वाते । केचित्तु ऋतं यथार्थभाषणं सत्यं
यथार्थ संकल्पनामिति व्याचक्षते । तेषां व्याख्या