तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 814, कुल 914 में से
संदर्भ में पढ़ें[अनु० १ ] सभाष्यो दशमप्रपाठकः । ८०९
काभिः सह । परुष्णी नाम नदी तया 'परुष्णिया । असिक्नी नाम नदी तयाऽसि-
क्निया । उभयत्र तृतीयायामक्षरविश्लेषश्छान्दसः । वितस्तवा(स्ता) नाम नदी तया
वितस्तया सह । सुषोमा नाम नदी तया सुषोमया सह । प्रार्थयितुरयमाशयः—
यद्यप्यहमेतन्मन्त्रोक्तानामनुक्तानां च महानदीनां रोधांसि गत्वा चिरकालं स्थित्वा
स्नात्वा पीत्वा च दिवसानपनेतुमक्षमस्तथाऽप्यहं यत्र कुत्राचिद्व्रदकूपायुदकेन स्नानं
कुर्वाण एतेन मन्त्रेण गङ्गाद्या नदीरुपतिष्ठ उपस्थिताश्चाऽऽगत्य संनिदधतां संनिधाय च
मदीयानां महतामप्येनसां विनाशं विदधतां विधाय चैवं मामभिदधतां पूतोऽसि शुद्धोऽसि
भुङ्क्ष्व भौमान्भोगान्सकुटुम्बः सपरिवारः साश्रितवर्गश्च भुक्त्वा चान्ते यथेच्छं पुण्यकृतां
लोकानाप्नुहीति ।
जले निमग्नस्य प्राणायामार्थमघमर्षणसूक्तमाह—
ऋ॒तं च॑ स॒त्यं चा॒भी॑द्धा॒त्तप॒सोऽध्य॑जायत ।
ततो॒ रात्रि॑रजायत॒ ततः॑ समु॒द्रो अ॑र्ण॒वः ( १३ ), ।
स॒मु॒द्राद॑र्ण॒वादधि॑ संवत्स॒रो अ॑जायत ।
अ॒हो॒रा॒त्राणि॑ ※विद॒धद्विश्व॑स्य मिष॒तो व॒शी ॥
सू॒र्या॒च॒न्द्र॒मसौ॑ धा॒ता य॑थापू॒र्वम॑कल्पयत् ।
दिवं॑ च पृथि॒वीं चा॒न्तरि॑क्षमथो॒ सुव॑ः, इति ।
तिसृणामृचामेकैव पदयोजना । अभित इद्धोऽभीद्धः । ञिइन्धी दीप्तौ । सर्वतो देदी-
प्यमानः परमात्मा । तस्मादभीद्धात्परमात्मनः सकाशादृत्तं यावज्ज्ञानोदयस्तावत्तथ्यं
पृथिव्यादिभूतपञ्चकमजायतोत्पन्नम् । किंच सत्यं यावज्ज्ञानोदयस्तावत्तथ्यं भुवनचतुर्द-
शकमजायतोत्पन्नम् । पञ्चभूतानां चतुर्दशभुवनानां च सत्यत्वस्य ज्ञानोदयावधित्वात् ।
ज्ञानोत्तरकालं मिथ्यात्वाङ्गीकारात् । चकारद्वयं तदन्तर्वर्तिप्राणिवर्गं समुच्चिनोति । ननु
भूतपञ्चकं भुवनचतुर्दशकं च कदा समुत्पन्नमिति चेच्छृणु । तपसोऽधि पर्यालोचना-
दूर्ध्वम् । अहं ब्रह्माण्डमेवमेवमुत्पादयामीत्यामित्थं जीवयामीतिपर्यालोचनानन्तरमजाय-
तेत्यर्थः । तथाच श्रुतिः—"सोऽकामयत बहु स्यां यदिदं किंच" इति । तप पर्या-
लोचन इति धातुपाठादत्र तपःशब्देन पर्यालोचनमुच्यते। लोकानुभवोऽपि कुलालो घट-
मुत्पादयामीत्यालोच्य घटमुत्पादयति [शरावमुत्पादयामी]त्यालोच्य शरावमुत्पादयतीत्या-
द्यः। ततो भूतभुवनोत्पत्त्यनन्तरं रात्रित्रियामाऽजायत । औपलक्षणयेना[ह रप्यजा]यतेति
मन्तव्यम् ततोऽह उत्पत्तिमनु समुद्रः सप्तधा भिन्नः पारावारोऽजायत । अर्णोऽस्य-
१ विदधदित्यपि पाठः प्रसिद्धो वैदिकेषु ।
१ क. ॰नारणं जा॑ ।
१०२