तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 816, कुल 914 में से
संदर्भ में पढ़ेंहमेव, अहं ब्रह्मतत्त्वानुभववेला-
Line 20: यामपि पूर्वसिद्धोऽहमेव । नतु योषित्सग्निध्यानवदुपचरितं ब्रह्मत्वम् । तादृ-
Line 21: शोऽहं जलरूपं मां जुहोमि । आधा ( उद् ) राग्नौ प्रक्षिपामि । हविष्प्रदानवाची
Line 22: स्वाहाशब्दः । मद्देहवर्तिभ्यः प्राणाद्यभिमानिभ्यो देवेभ्यो जलरूपं हविर्दत्तमित्यर्थः ।
Line 23: आचमनादूर्ध्वं पुनरपि स्नाने मन्त्रमाह—
Line 24: अ॒का॒र्य॒कार्य॑व॒की॒र्णी स्ते॒नो भ्रू॑ण॒हा गु॑रुत॒ल्पगः॑ ।
Line 25: वरु॑णो॒ऽपाम॑घम॒र्षण॒स्तस्मा॑त्पा॒पात्प्रमु॑च्यते, इति ।
Line 26: अकार्यं शास्त्रप्रतिषिद्धं कलञ्जभक्षणादिकं तत्कर्तुं शीलं यस्यासावकार्यकारी ।
Line 27: प्रतिषिद्धस्त्रीगमनवानवकीर्णी । ब्राह्मणसुवर्णहर्ता स्तेनः । वेदवेदाङ्गविद्ब्राह्मणो गर्भो
Line 28: वा [ भ्रूण ]स्तं हन्तीति भ्र