सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 803, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 803

७९४ परिशिष्टत्वेन संगृहीतः— [ अनु० १ ]
[ नारायणं प्रार्थयते— ]
नाराय॒णाय॑ वि॒द्महे॑ वासुदे॒वाय॑ धीमहि ।
तन्नो॑ विष्णुः प्रचो॒दया॑त्, इति ।
ततो(यो) विष्णुन॑ः प्रचोद॒यति॒ तं वि॒द्महे॒ धीम॑हि च । कथंविधम् । भक्तानां
नराणां समूहो नारं तस्यायनमाधार[स्त]म् । वसुदेवस्यापत्यं पुमान्व॑सु॒देवस्तम् ।
[ नरसिंहं प्रार्थयते— ]
व॒ज्रन॒खाय॑ वि॒द्महे॑ तीक्ष्णद॒ꣳष्ट्राय॑ धीमहि ( ६ ) ।
तन्नो॑ नारसिꣳहः प्रचो॒दया॑त्, इति ।
नरसिंह एव नारसिंहः । वज्रनखाय तीक्ष्णदंष्ट्राय तस्मै प(येत्येतत्प)दयोजना
पूर्ववत्सेयम् (ज्ञेया) । अयसा (कस्मा)त्तस्तम्भादवतीर्य स्वनखैर्हिरण्यकशिपुजठरभेत्तुः
कृत(त्त!)तदीयान्त्रयज्ञोपवीतस्य भगवतो नरकण्ठीरवगाय(रूपस्य) [वज्रनखत्वं तीक्ष्ण-
दंष्ट्रत्वं च युक्तमेव] ।
[ आदित्यं प्रार्थयते— ]
[भास्कराय॑] वि॒द्महे॑ महद्द्युतिक॒राय॑ धीमहि ।
[तन्नो॑] आदित्‍यः प्रचो॒दया॑त्, इति ।
अदितेर्देवमातुरपत्यमादित्यः । भा भूर्लोकाद्ये(क ए)व दीप्तिस्तत्कर्ता भास्करः । महती
त्रिलोकीगोचरा द्युतिर्महद्द्युतिस्तत्कर्ता महद्द्युतिकरः । आन्महत इत्यादिना प्राप्त-
स्याऽऽ[त्वस्य] लोपश्छान्दसः । अन्यदतीतवद्योजयितव्यम् ।
अग्निं प्रार्थयते—
वैश्वान॒राय॑ वि॒द्महे॑ लाली[लाय॑] धीमहि ।
तन्नो॑ अग्निः प्र[चो॒दया॑त्, इति ।]
स्वस्मिन्दत्तानि हव्यानि यथा[स्थानमन्यदेवताभ्यो] नयतीत्यग्निः । विश्वेभ्यो
नरेभ्यो हितो वैश्वानरः । लौकि[कदिव्ययो]रानुकूल्येन सर्वप्राणिहित इति यावत् ।
लालीलायेत्यत्र पृषोदरादेराकृति[गणत्वात्... ]तो नणो(वर्णो) लुप्यते । [हे] लालीला-
येत्यर्थः । हेला स्या(स्वा)कुटुम्बिकी क्रि[या... ] सर्वदेवताग्रगण्यत्वलक्षणा च क्रीडा
यस्य(स्या)[स्ति] स हेलाली[ल]स्तस्मै हेलालीलायै । यद्वा वैश्वानराय विद्म हेलाली-
लायेत्येका(स्यैवं) पदच्छेदः । तथा च मन्त्रान्तरप्रयोगः । यद्वा या सत्यमुत यन्न
विद्मेति । पूर्वत्राऽऽत्मनेपदमर्थे परस्मैपदम् । उभयत्र बहुवचनमेवात एवार्थैक्यम् ।
अन्यदतिक्रान्तवद्योजयितव्यम् । ।