सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 802, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 802

[अनु० १ ] सभाष्यो दशमप्रपाठकः । ७९७

गजसमानवक्त्रत्वेन दीर्घस्य तुण्डस्य रत्नकलशादिधारणार्थं वक्रत्वम् । दान्तिर्म-
हादन्तः ।
[नन्दिकेश्वरं प्रार्थयते—]
त॒त्पुरु॑षाय वि॒द्महे॑ चक्रतु॒ण्डाय॑ धीमहि (५) ।
तन्नो॑ नन्दिः प्रचो॒दया॑त्, इति ।
तद्यं परमशिववाहनरूपं नन्दिकेश्वरं वयं [वि]द्महे [धीमहि च]। कथंभूतम् । पुरु-
षाय पुरुषं कामरूपित्वाज्जातुचित्स्वेच्छया तिर्यक्त्वं परिहाय च्छ(धृ)तदिव्यपुरुषविग्र-
हम् । पुनश्चक्रतुण्डाय चक्रतुण्डं चक्रमिव तुण्डं यस्य यथा चक्रायुधं विष्णुप्रयुक्तं
समु[द्य]द्राक्षांसि हन्ति तथा स्वारूढपरमशिवस्य रक्षोभिः सह संगरप्रसङ्गे स्वमुखेन
तान्यत्तीत्यर्थः । तत्त नन्दिर्नन्दी नः प्रचोदयात् ।
[षडाननं प्रार्थयते—]
त॒त्पुरु॑षाय वि॒द्महे॑ महासेनाय॑ धीमहि ।
तन्नः॑ षण्मुखः प्रचो॒दया॑त्, इति ।
तद्यं वयं विद्महे धीमहि च तत्त षण्मुखः नः प्रचोदयात् ।
यं कथंभूतम् । पुरुषाय पुरुषम् । अनर्था(न्त)... पूर्णत्वात् ।
[महासेनाय] महती देवसेना यस्य तस्मै । तमित्य...
[गरुडं प्रार्थयते—]
त॒त्पुरु॑षाय वि॒द्महे॑ सुवर्णप॒क्षाय॑ धीमहि ।
तन्नो॑ गरुडः प्रचो॒दया॑त्, इति ।
स्पष्टोऽयं मन्त्रः ।
[ब्रह्म प्रार्थयते --]
वेदा॒त्मना॑य [विद्महे॑ हिरण्यग]र्भाय॑ धीमहि ।
तन्नो॑ ब्रह्म प्र[चोदया॑त्, इति ।]
तं (य) ब्रह्म णः(नः) पुण्यापुण्येषु प्रेरय..., तद्वयं विद्महे, गुरुकुले क्लिष्ट्वा
वेदान्तश्रवणादिना जानीमहे । ज्ञात्वा च निदिध्यासनार्थं वध (नार्थत्वधि)या सततं
धीमहि, अखण्डं तदेवाहमिति दिवानिशं मामृते(?)मयामः । कथंभूतम् । वेदा-
त्मनाय वर्णव्यत्ययेन वेदात्मकाय, शाखोपशाखोपेतसर्ववेदस्वरूपायेत्यर्थः । हिरण्य-
गर्भाय चतुर्मुखब्रह्मस्वरूपमित्यर्थः । वेदहिरण्यगर्भयोरुपलक्षकत्वेन सर्वात्मकमिति
यावत् । सेयं परमगायत्री ।