सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 773, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 773

त्सत्यं तदेतद्वाचो वागिन्द्रियस्य प्रतिष्ठा स्थिरावस्थानम् । अनृतं तु वाचोक्तमपि
परैर्निराक्रियत इति न वाचः प्रतिष्ठा । तथा सति लोके सत्ये भाषणे सर्वं प्रामाणि-
कव्यवहारजातं प्रतिष्ठितं तस्मात्कारणात्सत्यमेव परमं साधनमित्येवं केचिदनुष्ठा-
तारो वदन्ति ।
तत्राऽऽरुणेर्मुखविकासराहित्यलक्षणमपरितोषं दृष्ट्वा द्वितीयं साधनमाह—
तप॑सा दे॒वा दे॒वता॒मग्र॑ आय॒न्तप॑सर्पय॒ः सुव॒रन्व॑विन्द॒-
न्तप॑सा सप॒त्नान्प्रणु॑दामाराती॒स्तप॑सि॒ सर्वं॒ प्रति॑-
ष्ठितं॒ तस्मा॒त्तप॑ः पर॒मं वद॑न्ति— , इति ।
इदानीं स्वर्गे वर्तमाना अग्नीन्द्रादयो देवा अग्रे पूर्वजन्मन्यनुष्ठितेनाशनपरित्याग-
रूपेण कृच्छ्रचान्द्रायणादितपसा देवतामायन्निदानींतनं देवतात्वं प्राप्ताः । तथा वसि-
ष्ठादयो महर्षयः पूर्वानुष्ठितेन तपसा सुवरन्वविन्दन्स्वर्गलोकमनुक्रमेण लब्धवन्तः
तथा वयमपीदानीमभिचाररूपेण तपसा सपत्नाञ्शत्रूनरातीरस्मदीयद्रव्यलाभविरो-
धिनः पुरुषानपि प्रणुदाम निराकुर्मः । अन्यदपि सर्वं फलजातं तपसि प्रतिष्ठितम्
तस्मादनशनरूपं तपः परमं मोक्षसाधनमिति केचिद्वदन्ति ।
अत्रापि पूर्ववदपरितोषं दृष्ट्वा तृतीयं साधनमाह—
दमे॑न दा॒न्ताः किल्बि॑षमवधू॒न्वन्ति॒ दमे॑न ब्रह्मचा-
रिण॒ः सुव॑रगच्छ॒न्दमो॑ भू॒तानां॑ दुराध॒र्षं दमे॒ सर्वं॒
प्रति॑ष्ठितं॒ तस्मा॒द्दम॑ः पर॒मं वद॑न्ति-- , इति ।
दान्ता बाह्येन्द्रियनियमयुक्ताः पुरुषास्तेन दमेन स्वकीयं पापं विनाशयन्ति
तथा नैष्ठिकब्रह्मचारिणो दमेन स्वर्गमगच्छन् । स च दमो भूतानां प्राणिनां दुराधर्ष
माधर्षितुं सर्वतः सोढुं दुःशकः। तस्मिंश्च दमे सर्वमपेक्षितं फलं प्रतिष्ठितम् । तस्म-
त्कारणाद्दमः परमं मुक्तिसाधनमिति केचिद्वदन्ति । अत्र सर्वत्र पूर्वसाधने परितो-
षराहित्यादुत्तरसाधनोक्तिर्द्रष्टव्या ।
चतुर्थ साधनमाह —
शमे॑न शा॒न्ताः शि॒वमाच॑रन्ति॒ शमे॑न नाकं॑
मुन॑यो॒ऽन्व॑विन्द॒ञ्छमो॑ भू॒तानां॑ दुराध॒र्षं छमे॑
१ ग. सत्यभाषणोक्तं स° । २ क. °र्षः। तस्मिंस्तपसि सर्वमपेक्षितं फलं प्रति° । ३ ।