तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 774, कुल 914 में से
संदर्भ में पढ़ें[प्र०१०अनु०६३] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७६९
सर्व॒ं प्रति॑ष्ठितं॒ तस्माच्छम॑ः पर॒मं वद॑न्ति—, इति ।
शान्ता अन्तःकरणक्रोधादिरहिताः पुरुषास्तेन शमेन शिवं मङ्गलं पुरुषार्थमाच-
रन्ति । नारदाद्या मुनयः शमेन स्वर्गमलभन्त । अन्यत्पूर्ववत् ।
पञ्चमं साधनमाह—
दा॒नं य॒ज्ञानां॒ वरू॑थं दक्षि॑णा लो॒के दा॒तार॑ग्ँ सर्वभू॒तान्यु॑पजी-
व॑न्ति दा॒नेना॑रा॒तीरपा॑नुदन्त दा॒नेन॑ द्विष॒न्तो मि॒त्रा भ॑वन्ति
दा॒ने सर्व॒ं प्रति॑ष्ठितं॒ तस्मा॑द्दा॒नं प॑र॒मं वद॑न्ति—, इति ।
गोहिरण्यादिदानं यज्ञानां संबन्धिनी दक्षिणा भवति, तस्माद्वरूथं श्रेष्ठम् ।
लोकेऽपि दातारं पुरुषं वेदशास्त्रविदो मूढाश्च सर्वेऽपि पुरुषा उपजीवन्ति । तथा
योद्धृणां भटानां धनदानेनारातयः शत्रूनपानुदन्त राजानो निराकृतवन्तः । ये तु प्रबला
द्विषन्तस्तेऽपि दानेन तुष्टा मित्राणि भवन्ति । अन्यत्पूर्ववत् ।
षष्ठं साधनमाह—
ध॒र्मो विश्व॑स्य॒ जग॑तः प्रति॒ष्ठा लो॒के ध॑र्मि॒ष्ठं
प्र॒जा उप॑सर्पन्ति ध॒र्मेण॑ पा॒पम॑प॒नुद॑ति ध॒र्मे
सर्व॒ं प्रति॑ष्ठितं॒ तस्मा॑द्ध॒र्मं प॑र॒मं वद॑न्ति—, इति ।
तडागप्रपादिनिर्माणरूपो धर्मो विश्वस्य जगतः सर्वस्य प्राणिजातस्य प्रतिष्ठाऽऽ-
श्रय इत्येतत्प्रसिद्धम् । तथा लोके धर्मिष्ठमतिशयेन धर्मे वर्तमानं पुरुषं प्रजाः सर्वा
उपसर्पन्ति धर्माधर्मनिर्णयार्थमुपगच्छन्ति । किंच प्रायश्चित्तरूपेण धर्मेण पापं विनाश-
यन्ति । अन्यत्पूर्ववत् ।
सप्तमं साधनमाह—
प्र॒जन॑नं॒ वै प्रति॑ष्ठा लो॒के सा॒धु प्र॒जाया॑स्तन्तुं॑
त॒न्वानः॑ पि॒तॄणा॒मनृ॑णो भव॑ति॒ तदे॑व॒ तस्या॑
अनृ॑णं॒ तस्मा॑त्प्र॒जन॑नं प॑र॒मं वद॑न्ति—, इति ।
प्रजननं पुत्रोत्पादनं यदस्ति तदेव गृहस्थानां प्रतिष्ठा पुत्रस्य गृहकृत्यनिर्वाहक-
त्वात् । “ सोऽयं मनुष्यलोकः पुत्रेणैव जय्यो नान्येन कर्मणा ” इति श्रुतेः । किंच
प्रजायाः पुत्रपौत्रादिरूपायास्तन्तुं परम्परां साधु तन्वानः शास्त्रीयमार्गो यथा भवति
१ ख. ग. मित्रा । २ ग. ॰दन्ति ध॰ । ३ झ. पितॄणां । ४ ग. तस्य॑ । झ. तस्या॒न्त्ं ।