सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 772, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 772

[प्रपा० १० अनु० ६३] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७६७
संन्यास एक एव सर्वाण्यत्यरेचयत्, अतिक्रान्तवान् । उत्तमत्वतारतम्यं तत्र विश्रा-
न्तामित्यर्थः ।
उक्तमुत्तमसाधनमुपसंहरति—
य ए॒वं वेदेत्यु॑पनि॒षत् , इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
द्विषष्टितमोऽनुवाकः ॥ ६२ ॥
यः पुमानेवमुक्तप्रकारेण संन्यासस्यान्येभ्यः सर्वेभ्यः साधनेभ्य उत्तमत्वं वेद तस्य
विदुष इत्युक्ता विद्योपनिषद्रहस्यभूता भवति ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामु-
पनिषदि द्विषष्टितमोऽनुवाकः ॥ ६२ ॥

अथ त्रिषष्टितमोऽनुवाकः ।
पूर्वोक्तं मोक्षसाधनसमूहमुपपादयितुमाख्यायिकामाह—
प्रा॒जा॒प॒त्यो हाऽऽरु॑णिः सु॒प॒र्णेयः॑ प्र॒जाप॑तिं पि॒तर॒मुप॑ससार॒ किं
भ॑गवन्तः पर॒मं व॑द॒न्तीति॒ तस्मै॒ प्रोवा॑च—, इति ।
प्रजापतेः पुत्रः प्राजापत्यः, स चाऽऽरुणिनामकः । स एव सुपर्णाख्यायाः
*स्त्रिया अपत्यत्वात्सुपर्णेय इत्युच्यते । तादृशः पुरुषः स्वकीयं पितरं प्रजापति-
मुपससार । उत्तमसाधनजिज्ञासयोपसन्नवान् । उपसद्य चैवं पप्रच्छ । हे प्रजापते
भगवन्तः पूज्या महर्षयो मोक्षसाधनेषु किं साधनं परममुत्कृष्टं वदन्ति । एवं पृष्टः
प्रजापतिस्तस्मै आरुणये प्रोवाच ।
तदुक्तेषु साधनेषु प्रथमं दर्शयति—
स॒त्येन॑ वा॒युरावा॑ति स॒त्येना॑ऽऽदि॒त्यो रो॑चते दि॒वि स॒त्यं वा॒चः
प्र॑ति॒ष्ठा स॒त्ये सर्वं॒ प्रति॑ष्ठितं॒ तस्मा॑त्स॒त्यं प॑र॒मं वद॑न्ति--, इति ।
योऽयं वायुरिदानीमन्तरिक्षे वाति सोऽयं पूर्वजन्मनि मनुष्यः सन्सत्यवादित्वं
परिपाल्य तेन सत्येन वायुदेवतात्वं प्राप्येदानीं लोकानुग्रहायान्तरिक्षे वाति । तथै-
वाऽऽदित्योऽपि पूर्वजन्मानुष्ठितेन सत्येन दिवि रोचते द्युलोके प्रकाशते । यदेत-
*अत्र सकलादर्शपुस्तकेषु ------------------ तत्र केवलानुमानात्पाठः कल्पितो ज्ञेयः ।