सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 771, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 771

७६६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [प्रपा०१०अनु०६२]
अग्नयो गार्हपत्यादय उत्तमा मुक्तिहेतव इति कश्चिद्वेदार्थपर आह। तस्माद्गृ-
हस्थैरग्नय आधातव्या भवन्ति।
नवमं मतमाह-
अ॒ग्नि॒हो॒त्रमित्या॑हु॒स्तस्मा॑दग्निहो॒त्रे र॑मन्ते--, इति।
आहितेष्वग्निषु सायं प्रातश्चानुष्ठेयो होमोऽग्निहोत्रं तदुत्तमं मोक्षसाधनमित्यपरः
कश्चिद्वेदार्थपर आह। तस्मात्केचिदग्निहोत्रे रमन्ते।
दशमं मतमाह-
य॒ज्ञ इति॑ य॒ज्ञेन॒ हि दे॒वा दिवं॑
ग॒तास्तस्मा॑द्य॒ज्ञे र॑मन्ते— , इति।
दर्शपूर्णमासज्योतिष्टोमादिको यज्ञ उत्तमो मोक्षहेतुरित्यपरे वेदार्थपरा मन्यन्ते
यस्मादिदानीं वर्तमाना देवाः पूर्वानुष्ठितेन यज्ञेन दिवं गताः स्वर्गलोकं प्राप्ताः, तस्मा-
त्कारणात्केचन वैदिका विद्वांसो यज्ञे रमन्ते।
एकादशं मतमाह--
मान॒समिति॑ विद्वाँ॑स॒स्तस्मा॑द्विद्वाँस॑ एव मान॒से र॑मन्ते—, इति।
मनसैव निष्पाद्यमुपासनं मानसं तदेवोत्तमं साधनमिति विद्वांसः सगुणब्रह्मविदो
मन्यन्ते। तस्मात्कारणात्केचन विद्वांसो वेदान्तोपास्तिभागतात्पर्यविदो मानस एवो-
पासने रमन्ते।
द्वादशं मतमाह-
न्यास इति॑ ब्र॒ह्मा ब्र॒ह्मा हि परः॑ प॒रो
हि ब्र॒ह्मा तानि॒ वा ए॒तान्यव॑राणि॒
तपाँ॑सि॒ न्यास॑ ए॒वात्य॑रेचय॒त्- , इति।
पूर्वकाण्डोक्तानामग्निहोत्रादिकर्मणामारुणिजाबालाद्युपनिषदुक्तप्रकारेण परित्यागो
न्यासः, स एवोत्तमो मोक्षहेतुरिति ब्रह्मा हिरण्यगर्भो मन्यते। स च ब्रह्मा परो
हि परमात्मरूपो हि। नतु पूर्वोक्तमतानुसारिण इव जीवः। यद्यप्यसौ हिरण्यगर्भो
देहधारी तथाऽपि परो हि परमात्मैव ब्रह्मा हिरण्यगर्भ इति वक्तुं शक्यते, तच्छि-
ष्यत्वेन तत्समानज्ञानत्वात्। अत एव श्वेताश्वतरा आमनन्ति—“यो ब्रह्माणं विद-
धाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै” इति। यानि पूर्वोक्तसत्यादीनि मानसा-
न्तानि तान्येतानि तपांसि भवन्त्येव तथाऽपि संन्यासमपेक्ष्यावराणि निकृष्टानि।