तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 61, कुल 914 में से
संदर्भ में पढ़ें५६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [प्रपा० १ अनु० ११]
त्मानं समाधिना पश्यति । तस्य च दृष्टस्य वस्तुनः स्वस्वरूपत्वेन निश्चयः स्वीकारः ।
[*अतोऽङ्गुलिव्यापाररहितोऽपि स्वी करोतीत्युच्यते । तस्मिन्वस्तुनि स्थैर्यं प्रत्यमुञ्च-
दित्यच्यते । कृतकृत्योऽस्मीत्यादि भाषणं जिह्वया प्रशंसेत्युच्यते (?)] ।
अथ द्वितीयामाह—
ऊ॒र्ध्वमू॑लम॒वाक्छा॑खम् । वृ॒क्षं यो वेद॒ संप्र॑ति ।
न स जा॒तु जन॑ः श्रद्दध्यात् । मृ॒त्युर्मा॑ मारया॒दिति॑१, इति ।
लौकिकस्य हि वृक्षस्याधोभागे मूलमूर्ध्वभागे शाखाश्च । संसारवृक्षस्य तद्वैपरी-
त्यम् । ऊर्ध्वं सर्वोत्कृष्टं ब्रह्म मूलम्, अवाञ्चोऽधमा ब्रह्मादिस्तम्बान्ता देहाः
शाखाः, अयं च संसारो व्रश्चनयोग्यत्वाद्वृक्षः । तत्त्वज्ञानेन हि सोऽयमज्ञानजन्यो