तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 564, कुल 914 में से
संदर्भ में पढ़ें[प्रपा० ८ अनु० २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ५५९
वमुपजीव्य परिच्छेदं व्यावर्त्य कतकरजोन्यायेनैनमप्यभावं व्यावृत्य सदेकरसमेव लक्ष्यते ।
तथा सति श्रुत्यन्तरे “ सदेव सोम्य ” इत्यवधारणमुपपद्यते । तस्मादनन्तं ब्रह्मेत्येतदपि
लक्षणमदुष्टमेव । तदेतदभिप्रेत्य वार्तिककार आह—
“कालाकाशादियोनित्वात्सर्वात्मत्वात्तथाऽऽत्मनः ।
वस्त्वन्तरस्य चाभावान्मुख्यानन्त्यं परात्मनः ॥
कल्पितेन परिच्छेदो न ह्यकल्पितवस्तुनः ।
कल्पितश्चेह कालादिर्वाचाऽऽरम्भणशास्त्रतः ”॥ इति ।
अनेनैव सत्यादिन्यायेन “विज्ञानमानन्दं ब्रह्म” “अत्रायं पुरुषः स्वयंज्योतिर्भवति”
“ पूर्णमदः पूर्णमिदम् ” इत्यादिश्रुतिषूक्ता आनन्दस्वयंज्योतिःपूर्णादिशब्दाः प्रत्येकं
लक्षणत्वेन योजनीयाः । तदर्थमानन्दादयो गुणा अत्रोपसंहर्तव्याः । ब्रह्मणि निवर्तनी-
यानां पुरुषभ्रान्तीनां बहुत्वेन लक्षणबाहुल्यम् । न त्वेतावता ब्रह्मणो बहुविधत्वमस्ति ।
निर्विशेषमेव सर्वैरपि लक्षणैः प्रतिपाद्यते । आनन्दाद्युपसंहारस्तृतीयाध्यायस्य तृती-
यपादे* चिन्तितः—
“अनाहार्या उताऽऽहार्या आनन्दाद्यास्तु नाऽऽहृतिः ।
वामनीसत्यकामादेरिवैतेषां व्यवस्थितेः ॥
विधीयमानधर्माणां व्यवस्था स्याद्यथाविधि ।
प्रतिपत्तिफलानां तु सर्वशाखासु संहतिः ॥
“आनन्दो ब्रह्म” “सत्यं ज्ञानमनन्तं ब्रह्म” इत्यानन्दसत्यत्वादयस्तैत्तिरीयके पर-
ब्रह्मविद्यायां पठ्यन्ते । ते “प्रज्ञानं ब्रह्म” इत्याद्यैतरेयकादिप्रोक्तासु परविद्यासु नोप-
संहर्तव्याः । वामनीत्वादिवद्व्यवस्थोपपत्तेः । “एष उ एव वामनीरेष उ एव
भामनीः” इति कामनेतृत्वभासकत्वादयो गुणा उपकोसलविद्यायाम म्नाताः । “सत्य-
कामः सत्यसंकल्पः” इति सत्यकामत्वादयो दहरविद्यायामाम्नाताः । तत्र यथा पर-
स्परं गुणानुपसंहार एवमानन्दादीनां व्यवस्थाऽस्त्विति प्राप्ते ब्रूमः— विषमो दृष्टान्तः ।
वामनीत्वादीनां ध्येयत्वेन विधीयमानत्वाद्यथाविधि व्यवस्था युक्ता । आनन्दादयस्तु
प्रतिपत्तिफला इति न विधीयन्ते । अतो व्यवस्थापकविध्यभावान्प्रतिपत्तिफलस्य सर्वत्र
समत्वाच्चाऽऽनन्दादय उपसंहर्तव्याः” ।
- आनन्दादयः प्रधानस्य । ब्र० सू० अ० ३ पा० ३ अ० ६ सू० १२ ।
१ घ. ॰न्ते । ॰प्र° । २ क. ख. ङ. ॰भीत्यदि° । ३ ग. ॰ध ए° । ४ क. ग. घ.
॰कामान्दो° । ५ क. ख. ङ. ॰नीत्यादी° ।