तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 565, कुल 914 में से
संदर्भ में पढ़ेंब्रह्मणो निर्विशेषत्वं तत्रैव द्वितीयेपादे * चिन्तितम्—
“ब्रह्म किं रूपि वाऽरूपि भवेन्नीरूपमेव वा।
द्विविधश्रुतिसद्भावाद्ब्रह्म स्यादुभयात्मकम्॥
नीरूपमेव वेदान्तैः प्रतिपाद्यमपूर्ववत्।
रूपं त्वनूद्यते ध्यातुमुभयत्वं विरुध्यते॥
“तदेतच्चतुष्पाद्ब्रह्म” इत्यादिश्रुतयो रूपवद्ब्रह्म प्रतिपादयन्ति। “अस्थूलमनण्
इत्यादिश्रुतयो नीरूपम्। तस्माद्वस्तुत उभयात्मकं ब्रह्मेति प्राप्ते ब्रूमः—नीरूपं
शास्त्रप्रतिपाद्यं मानान्तरासिद्धत्वात्। जगत्कर्तृत्वादिरूपयुक्तं तु ब्रह्म क्षित्यादिकं १
र्तृकं कार्यत्वादित्यनुमानेनावगन्तुं शक्यमत एवोपासनायामनूद्यते न तु तात्पर्येण २
पाद्यते। न चानुमानशास्त्रसिद्धयोरुभयोर्वास्तवत्वमेकस्मिन्वस्तुनि सरूपत्वनीरूपत्व-
विरुद्धत्वात्। तस्माद