सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 560, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 560

[प्रपा०८/अनु०२] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ५५५

देशकृतः कालकृतो वस्तुकृतश्चेति । तत्र “ आकाशवत्सर्वगतश्च नित्यः ” इति श्रुत्या
सर्वदेशसर्वकालसंबन्धावगमाद्देशकालपरिच्छेदौ न स्तः ।
“ ब्रह्मैवेदममृतं पुरस्तात्पश्चाद्ब्रह्म दक्षिणतश्चोत्तरेण ।
अधश्चोर्ध्वं च प्रसृतं ब्रह्मैवेदं विश्वमिदं वरिष्ठम्”॥
इति श्रुतौ सर्वदेशकालसंबन्धवत्सर्ववस्त्वात्मकत्वस्यापि श्रवणाद्ब्रह्मव्यतिरिक्तवस्त्व-
भावेन वस्तुपरिच्छेदोऽपि नास्ति । तदेवं सत्यादिशब्दैर्मिथ्यात्वजाड्यापरिच्छेदेभ्यो
यद्व्यावर्तितं तद्ब्रह्मेति वाक्यार्थः संपद्यते । ननु सत्यादिपदानामतद्व्यावृत्तिपरत्वाद्व्रह्म-
शब्दार्थस्योत्पलादिशब्दार्थवल्लोके प्रसिद्ध्यभावाद्वाक्यं शून्यपरं प्रसज्येत—
“ मृगतृष्णाम्भसि स्नातः खपुष्पकृतशेखरः ।
एष वन्ध्यासुतो याति शशशृङ्गधनुर्धरः ” ॥
इतिवाक्यार्थवदिति चेन्न । बृंहतेर्धातोरर्थानुगमेन ब्रह्मशब्दार्थस्य प्रसिद्धत्वात् ।
प्रकारान्तरेणापि प्रसिद्धिर्भगवद्भिर्दर्शिता —“सर्वस्याऽऽत्मत्वाच्च ब्रह्मास्तित्वप्रसिद्धिः ।
सर्वो ह्यात्मास्तित्वं प्रत्येति ” इति । ब्रह्मणश्चाऽऽत्मत्वादस्तित्वं प्रसिद्धम् । ब्रह्मण-
श्चाऽऽत्मत्वम् “ अयमात्मा ब्रह्म ” इत्यादिश्रुतिसिद्धम् । अतः शून्यार्थत्वाभावे
सति सत्यादिपदानां विशेषणत्वं लक्षणत्वं चोपपद्यते । अन्यथा किं विशेष्येत किं
वा लक्ष्येत । वस्तुतो ब्रह्मान्तराभावेऽप्यविद्यादशायामनृतजडपारिच्छिन्नैरूपाधिभिरुप-
हितत्वाकारेणानृतत्त्वादिधर्मविशिष्टानां त्रयाणां ब्रह्मान्तराणां सजातीयानां सद्भावा-
द्विवक्षितं ब्रह्म तेभ्यो ब्रह्मभ्यः सत्यादिपदैर्विशेष्यते* । लक्षणपक्षे तु विजातीये-
भ्योऽप्युपाधिभ्यो व्यावर्त्यते । यथा द्रष्टृदर्शनदृश्यादित्रिपुटीव्यवहाराद्व्यावृत्य भूमप-
दार्थो लक्ष्यते तद्वत् । तथा च च्छन्दोगा आमनन्ति—“यत्र नान्यत्पश्यति नान्य-
च्छृणोति नान्यद्विजानाति स भूमा” इति । अन्योऽन्यत्पश्यतीत्येवमादिका त्रिपुटी
यस्मिन्पदार्थे नास्ति स पदार्थो भूमेत्यतद्व्यावृत्त्या सर्वव्यवहाररहितं वस्तु लक्ष्यते ।
एवमत्रापि सत्यादिपदैर्मिथ्यात्वादिव्यावृत्त्या तद्रहितं ब्रह्म लक्ष्यताम् । अत्र केवल-
विशेषणत्वपक्षे सत्यादिपदानि त्रीण्यपि परस्परनियामकत्वेन मिलित्वा ब्रह्मस्वरूपं प्रति-
पादयन्ति । तथा हि—बाधराहित्यवाची सत्यशब्दस्त्रिविधं सत्यमाचष्टे । प्रातिभासिकं
व्यावहारिकं पारमार्थिकं चेति त्रैविध्यम् । शुक्तिरजतादीनां यावत्प्रतिभासं बाधराहि-
त्यात्प्रातिभासिकं सत्यत्वम् । पृथिव्यादिभूतानां शरीरादिभौतिकानां च तत्त्वज्ञानो-
त्यात्पूर्वं लोकव्यवहारे बाधाभावाद्व्यावहारिकं सत्यत्वम् । वेदान्तोत्पादितज्ञानादूर्ध्व-
* व्यावर्तयत इत्यर्थः ।
१ घ. ˚स्ताद्ब्रह्म पश्चा˚ । २ घ. ˚वाक्यव˚ । ३ क. ङ. ˚णां स˚ । ४ ग. ˚र्विशिष्य˚ ।
५ ग. घ. ˚हारैर्बाधा˚ ।