सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 559, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 559

तत्तस्मिन्पूर्वसूत्रार्थे तदभिप्रायपरिज्ञानार्थमेषाऽनन्तरमेव वक्ष्यमाणा काचिदृगा-
क्ताऽभितः कथिता । सर्वोऽपि सूत्राभिप्रायस्तस्यां विस्पष्ट इत्यर्थः । ब्रह्मविदित्यु-
कीदृशं ब्रह्मेत्येवं बुभुत्सोदयात्सत्यादिभिश्चतुर्भिः पदैस्तत्स्वरूपमुच्यते । तानि च पदा-
समानाधिकरणत्वाद्विशेषणविशेष्यरूपाणि । यथा नीलं महत्सुगन्ध्युत्पलमित्यत्र विशे-
णविशेष्यभावस्तद्वत् । तत्र वेद्यतया विवक्षितत्वात्प्रधानं ब्रह्म विशेष्यं सत्यादिपदा-
च स्वार्थविपरीतेभ्यस्तद्ब्रह्म व्यावर्तयन्ति । ननु विवक्षितोत्पलविपरीतान्यन्यान्युत्पला-
विद्यन्ते रक्तमुत्पलं स्वल्पमुत्पलमीषद्गन्धमुत्पलमित्येवं दृष्टत्वात् । अतो विवक्षितस्यो-
लस्य तेभ्यो व्यावृत्तये नीलादिपदानि । अत्र त्वनृतं ब्रह्म जडं ब्रह्म परिच्छिन्नं ब्रह्मेत-
द्विपरीतानि ब्रह्माणि न सन्ति । यथाऽ