तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 542, कुल 914 में से
संदर्भ में पढ़ें[प्रपा०७अनु०११] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ५३७
तथा त्वमपि वर्तस्व । रागद्वेषौत्सुक्यादिदोषराहित्येन सम्यक्शास्त्रार्थनिर्णयकुशलाः
संमर्शिनः । नित्यनैमित्तिकानुष्ठाने स्वयं प्रवृत्ता युक्ताः । तत्राप्या समन्ताद्युक्ता
आयुक्ताः । अवैकल्येन सम्यगनुष्ठास्याम इत्येवमभियुक्ता इत्यर्थः । ल्रूक्षेण क्रोधेनाऽऽ-
ग्रहेण वा रहिता अल्रूक्षाः । धर्ममेव कामयन्ते न तु लाभपूजादिकमिति धर्मकामाः ।
इत्थं संदिग्धधर्मनिर्णयोपायमुपदिश्यानन्तरं पातकादिशङ्कया निन्दितेषु पुरुषेष्वव्यव-
हार्यत्वे निर्णयोपायमुपदिशति--
अथा॒भ्या॑ख्या॒तेषु॑ । ये तत्र॑ ब्राह्म॒णाः सं॑म॒र्शिन॑: ।
यु॒क्ता आ॑यु॒क्ताः॑ । अलू॒क्षा ध॑र्म॒कामा॑: स्युः । यथा॒
ते' तेषु॑ वर्ते॒रन् । त॒था तेषु॑ वर्ते॒थाः, इति ।
पूर्ववद्व्याख्येयम् ।
उक्तमनुशासनमुपसंहरति--
ए॒ष आ॒देश॑: । ए॒ष उ॑प॒देश॑: । ए॒षा वे॑दोप॒निष॑त् । ए॒तद॑नुशास॒-
नम् । ए॒वमु॒पासि॑त॒व्यम् । ए॒वमु॒ चैत॑दुपा॒स्यम् (४), इति ।
स्वाध्यायप्रवचनाभ्यां न प्रम॑दित॒व्यं तानि त्वयोपा॑स्या॒नि
स्यात्तेषु॑ वर्तेरन्त्सम॒प्त च॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके सप्तमप्रपाठके
एकादशोऽनुवाकः ॥ ११ ॥
सत्यं वदेत्यारभ्य तथा तेषु वर्तेथा इत्यन्तो योऽयं ग्रन्थसंदर्भः स एष
आदेशः श्रौतो विधिः । यथा राजा स्वभृत्यमादिशति तथा वैदिको विधिरनुष्ठाता-
रमादिशति । आदेशस्य समीपवर्तित्वात्स्मार्तो विधिरुपदेशः । स्मृतीनां वेदमूलतया
तत्समीपवर्तित्वम् । अप्रत्यक्षश्रुतिमूलासु स्मृतिष्वपि सत्यं वदेत्यादिवाक्यार्थ एवमेवोप-
लभ्यते । येयं सत्यं वदेत्याद्युक्तिः सैषा वेदोपनिषद्द्वेदरहस्यं विध्यर्थवादमन्त्रात्मके
वेदे विधिरूपः सारभागः । यदेतत्सत्यं वदेत्यादिकं तदेतदनुशासनमीश्वरस्याऽऽज्ञा ।
श्रुतिस्मृती ममैवाऽऽज्ञे इत्येवमीश्वरेणोक्तत्वात् । यस्मात्सत्यवदनादिकं श्रौत-
स्मार्तविध्युक्तं वेदरहस्यमीश्वराज्ञारूपं च तस्मादेवमुक्तेन प्रकारेणोपासितव्यमनुष्ठा-
तव्यम् । एवमु चैतदुपास्यमिति पुनर्वचनमादरार्थम् । उ चेत्यव्ययसमुदायोऽवधार-
णार्थः । उक्तप्रकारेणैतदनुष्ठेयमेव नतु कदाचिदपि परित्यक्तुं शक्यम् । अत्र केचि-
देवमादरं दृष्ट्वा कर्मभिरेव मोक्षं वर्णयन्ति । अपरे तु पुनर्ज्ञानकर्मसमुच्चयेन । तावेतो
१ क. ग. घ. - ङ. रूक्षेण । २ क. ख. ग. ङ. ०न्तो यो ग्र० ।
३८