तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 539, कुल 914 में से
संदर्भ में पढ़ें५३४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्—[प्रपा० ७ अनु० ११]
दननुष्ठानं प्रमादः सोऽपि न कर्तव्यः । कुशलं क्षेमस्तेन तत्कारणं कर्म विवक्षितम्
तच्च द्विविधं वैदिकं लौकिकं च । “ यो ज्योगमयावी स्याद्यो वा कामयेत सर्वमायु-
रियामिति तस्मा एतामिष्टिं निर्वपेत् ” इत्यादिकमायुरारोग्यप्रदं वैदिकम् । चिकित्सादि-
लौकिकम् । भूतिरैश्वर्यं तया तत्कारणमुपलैक्ष्यते । तत्रापि “ वायव्यं५ श्वेतमालभेत
भूतिकामः ” इत्यादिकं वैदिकम् । प्रतिग्रहादिकं लौकिकम् । कुशलभूत्योरभावे मुक्तिहे-
तुकर्मानुष्ठानासम्भवात्तयोरप्रमादोऽनुशासनीयः । गृहीतस्वाध्यायस्य विस्मृतिरूपः प्रमादः
पूर्वं निवारितः । अत्र त्वध्यापनीयस्वाध्यायब्रह्मयज्ञयोरननुष्ठानरूपः प्रमादो निवार्यते
पौराणिकं विनायकव्रतानन्तव्रतादिकं देवकार्यम् । प्रतिसांवत्सरादिकं पितृकार्यम् ।
अथ मात्रादिषु मनुष्यत्वबुद्धिपरित्यागेन देवताबुद्ध्या पूजां विधत्ते—
मातृ॑दे॒वो भव । पि॒तृदे॑वो भव । आचा॑र्य-
दे॒वो भ॑व । अति॑थिदे॒वो भ॑व, इति !
मातैव पूजनीयो रुद्रविष्णुविनायकादिरूपो देवो यस्य सोऽयं मातृदेवः । एवमु-
त्त्रापि ।
[L