तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 540, कुल 914 में से
संदर्भ में पढ़ें[प्रपा०७अनु०११] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ५३५
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् ।
दया भूतेष्वलोलुत्वं ( प्त्वं ) मार्दवं ह्रीरचापलम् ॥
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता ।
भवन्ति संपदं दैवीमभिजातस्य भारत ॥
दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च ।
अज्ञानं चाभिजातस्य पार्थ संपदमासुरीम् ।
दैवी संपद्विमोक्षाय निबन्धायाऽऽसुरी मता ” ॥ इति ।
तत्रास्माकं संबन्धीनि यान्यभयादीनि सुचरितानि त्वया तान्येव सेवितव्यानि
न तु दम्भादीनि। अयं न्यायः सर्वत्र शिष्टाचारे योजनीयः । तथा हि-- जामदग्न्यः
पितुराज्ञया स्वजननीं जघानेत्यत्रापि पित्राज्ञापालनारूपं सुचरितमादर्तव्यम् । न तु
मातृवधरूपं दुश्चरितम् । एवमन्यदप्युदाहार्यम् ।
अथ महापुरुषसेवायां कंचिद्विशेषमुपदिशति--
ये के चा॒स्मच्छ्रेयां॑सो ब्रा॒ह्म॒णाः । तेषां॑
त्वयाऽऽसनेन प्र॒श्वसि॑त॒व्यम्, इति ।
वयोविद्यादिगुणैरस्मत्तो भवदाचार्येभ्यो येऽधिका धर्मनिष्ठाः सन्ति तेषामासनदान-
पादप्रक्षालनादिशुश्रूषया प्रश्वासः श्रमापनयनं त्वया कर्तव्यम्¹ । अथवा तेषामासने
त्वया प्रश्वासोऽपि न कर्तव्यः । पाण्डित्यमन्यतया विश्रम्भेण वादादि न कर्तव्यमिति
किमु वक्तव्यम् । तस्मात्तदुपदिष्टार्थग्राहिणैव त्वया भवितव्यम् ।
अथ दाने कंचिद्विशेषमुपदिशति--
श्र॒द्धया॒ देय॑म् । अश्र॑द्धयाऽदे॒यम् । श्रि॒या देय॒॑म् ।
ह्रि॒या देय॑म् । भि॒या देय॑म् । सं॒विदा॒ देय॒म्, इति ।
यदा धनं विप्राय दीयते तदा श्रद्धायुक्तेनैव भवता देयम् । अश्रद्धया तु किंचिद-
'प्यदेयम् । श्रद्धया रहितस्य दानस्य लोकद्वयेऽप्यनुपयोगात् । तथा च भगवतोक्तम् ।
“अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।
असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ” ॥ इति ।
अदेयमितिपदच्छेदपक्षे तदिदं व्याख्यानम् । देयमिति वा पदच्छेदः । यथा
श्रद्धया युक्तो ददाति तथा श्रद्धासाहित्येऽपि दातव्यम् । सात्त्विकदानफलाभाव एवो-
१ घ. कार्यम् ।