सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 517, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 517

·सर्ववागाद्याधिपत्यं द्रष्टव्यम्(?)। एकमेवान्तःकरणं शक्तिभेदेन मनोविज्ञानशब्दाभ्यामभि-
·धीयते । करणशक्त्या मन इत्युच्यते । कर्तृशक्त्या तु विज्ञानमिति । पूर्वमसावेव देह-
मात्रवर्तिमनोवागादीनामधिपतिरभूत् । इदानीं तु विद्यासामर्थ्येन सर्वात्मकविराडुपाधि-
·मत्तां प्राप्य सर्वदेहवर्तिमनोवागाद्याधिपतिर्भवति । ततः समष्टिरूपविराट्प्राप्तेरनन्तरमुत्पन्न-
·ब्रह्मतत्त्वावबोधः सन्नविद्यायां विनष्टायामेतद्द्रक्ष्यमाणस्वरूपं भवति । आकाशेत्यादिना
तदेतत्स्वरूपमभिधीयते—आकाशवन्मूर्तिरहितं शरीरं स्वरूपं यस्य ब्रह्मणस्तदाकाशश-
रीरम् । यद्वा सर्वजगत्कल्पनाधिष्ठानत्वेन सर्वात्मकत्वादाकाशोऽपि ब्रह्मणः स्वरूपम् ।
आकाशे हि सच्चिदानन्दरूपोऽधिष्ठानभागो नामरूपात्मक आरोप्यभागश्चेत्युभयं दृश्यते।
तत्र नामरूपयोर्मिथ्यात्वेन ब्रह्मत्वाभावेऽप