सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 516, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 516

त्तिष्ठति तस्य मांसखण्डस्य योगशास्त्रप्रसिद्धिं द्योतयितुं यच्छब्दः । प्रत्यक्षतां द्योतयि-
तुमेतच्छब्दः । लम्बिकाकरणप्रवीणस्य जिह्वाग्रस्पर्शनेन प्रत्यक्षः । परकीयमुखे तु चक्षु-
षैव प्रत्यक्षः । स च मांसखण्ड इन्द्रस्य परमेश्वरस्य योनिः स्थानम् । शाखाग्रचन्द्रद-
र्शनन्यायेन स मांसखण्डः स्वसमीपवर्तिनीं योगशास्त्रप्रसिद्धां सुषुम्नाख्यां नाडीमुपलक्ष-
यति । तस्यां च नाड्यां प्रविष्टं चित्तमेकाग्रं भूत्वा परमात्मानं साक्षात्कर्तुं प्रभवति ।
एतदेवाभिप्रेत्य क्षुरिकोपनिषद्याम्नायते—
“ एकोत्तरं नाडिशतं तासां मध्ये वरा स्मृता ।
सुषुम्ना तु परे लीना विरजा ब्रह्मरूपिणी ॥
इडा तिष्ठति वामेन पिङ्गला दक्षिणेन तु ।
तयोर्मध्ये परं स्थानं यस्तं(?) वेद स वेदवित् ” ॥ इति ।
अतः सा नाडी परमेश्वरस्य स्थानम् । किंचामृतत्वप्राप्तेर्मार्गभूतत्वादपि तस्य स्थानम् ।
तन्मार्गत्वमपि च्छन्दोगैः कठैश्चाम्नायते—“ शतं चैका च हृदयस्य नाड्यस्तासां
मूर्धानमभिनिःसृतैका । तयोर्ध्वमायन्नमृतत्वमेति ३” इति । सेयमिन्द्रस्य योनिः सुषुम्ना
नाडी शिरसो वामदक्षिणकपाले व्यपोह्य विनिर्भिद्य यत्र यस्मिन्मूर्धप्रदेशे केशाना-
मन्तो मूलमस्ति तत्र विशेषेण वर्तते । यथाऽग्रस्योपरि केशानामभावादग्रमन्तशब्देनो-
च्यते, तथा मूलादधोऽपि तदभावान्मूलमप्यन्तशब्दवाच्यम् ।
इत्थमुपासकस्य फलप्राप्तये निर्गमनद्वारमभिधायेदानीं फलं दर्शयति—
भूरित्य॒ग्नौ प्रति॑तिष्ठति । भुव॒ इति॑ वा॒यौ ( १ ) ।
सुव॒रित्या॑दि॒त्ये । मह॒ इति॒ ब्रह्म॑णि । आ॒प्नोति॑
स्वारा॑ज्यम् । आ॒प्नोति॒ मन॑स॒स्पति॑म् । वाक्प॑ति-
श्चक्षु॑ष्पतिः । श्रोत्र॑पतिर्विज्ञान॑पतिः । ए॒तत्ततो॑
भव॑ति । आ॒का॒शश॑रीरं॒ ब्रह्म॑ । स॒त्यात्म॑ प्रा॒णा-
रा॒मं मन॑आनन्दम् । शान्ति॑समृद्धम॒मृत॑म् , इति ।
व्याहृतित्रयध्यानेनाग्न्यादिषु प्रतितिष्ठति । अग्निर्वाय्वादित्यानां यदैश्वर्यं तत्प्रा-
प्नोति । चतुर्थव्याहृतिध्यानेन ब्रह्मणि सत्यलोकवासिनि प्रतितिष्ठति । ब्रह्मणो यदै-
श्वर्यं तत्प्राप्नोति । तदेव स्वाराज्यादिवाक्यैः प्रपञ्च्यते—अग्न्यादीनामङ्गदेवतानां स्वय-
मेव राजा भवति । राजत्वादेव सर्वेऽस्मै देवा बलिमावहन्तीत्युक्तम् । न केवलं स्वारा-
ज्यप्राप्तिः किंतु सर्वेषां प्राणिनां यन्मनस्तस्य पतित्वं प्राप्नोति सर्वप्राण्यात्मको भूत्वा-
१ ख. ग. 'न मां' । २ घ. परस्था° । ३ ग. °ति । सोऽव्य° । ४ क. °मदा° ।