तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 515, कुल 914 में से
संदर्भ में पढ़ें५१० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [प्रपा०७अनु०६]
हतीर्वेद स पुमान्वक्ष्यमाणानुवाकोक्तं ब्रह्मोपास्ते । ब्रह्मोपासनमेवात्र प्रधानम् । व्याहृ-
त्युपासनमङ्गम् । तस्माद्ब्रह्मप्राप्तौ सत्यां सर्वदेवपूज्यत्वं युक्तम् ॥
इति श्रीमत्सायणाचार्यविरचिते श्रीबुक्कणसाम्राज्यधुरंधरमाधवाविद्यारण्यपरमे-
श्वरसंबन्धिवेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये सप्तम-
प्रपाठके सांहित्यामुपनिषदि पञ्चमोऽनुवाकः ॥ ५ ॥
अथ सप्तमे षष्ठोऽनुवाकः ।
पञ्चमेऽङ्गोपासनमुक्तं षष्ठे त्वङ्गिन उपासनमुच्यते । तत्राऽऽदावुपास्यस्वरूपं
दर्शयति—
स य ए॒षो॑ऽन्तर्हृ॑दय आ॒काश॑ः । तस्मि॑न्न॒यं पुरु॑षो
मनो॑मयः । अ॒मृतो॒ हिर॑ण्मयः, इति ।
हृदयपुण्डरीकस्य मध्ये स्वाङ्गुष्ठपरिमित आकाशो वर्तते । स एष इत्येताभ्यां दूर-
सामीप्यवाचिभ्यां व्यवहितयोगशास्त्रप्रसिद्धः संनिहितश्रुत्यन्तरप्रसिद्धश्चोच्यते । ईदृशो
य आकाशस्तस्मिन्नाकाशे पुरुषः संपूर्णः परमात्माऽस्ति । यद्यप्यसौ सर्वत्र वर्तते
तथाऽपि तस्योपलब्ध्यर्थमुपासनार्थं च हृदयस्थानमुपदिश्यते । हृदयकमलमध्ये हि
समाधिना निरुद्धमेकाग्रं मनः परमात्मानं साक्षात्कर्तुं प्रभवति । “ दृश्यते त्वग्र्यया
बुद्ध्या ” इतिश्रुत्यन्तरात् । अपरोक्षवाचकेनायमित्यनेन शब्देन सेयं साक्षात्कारयो-
ग्यताऽभिधीयते । तादृशः पुरुषो हृदयमध्य उपास्यमानः प्रसीदति । अत एव दहर-
शाण्डिल्यविद्यासु हृदयमाम्नातम् । तस्मिन्हृदय उपासितव्यः पुरुषो मनोमयो मन-
प्रधानः । जिज्ञासवो हि तं पुरुषं मनसा साक्षात्कुर्वन्ति, उपासकाश्च मनसा ध्यायन्ति
तदिदं मनोमयत्वम् । अमृतत्वं विनाशराहित्यम् । हिरण्मयो ज्योतिर्मयः स्वप्रका-
श इत्यर्थः ।
इत्थमुपास्यस्वरूपमभिधायोपासकस्य मार्गविशेषं दर्शयति—
अन्त॑रेण तालु॑के । य ए॒ष स्तन॑ इ॒वावलम्ब॑ते । सेन्द्र॑योनिः ।
यत्रा॒सौ के॑शा॒न्तो वि॒वर्त॑ते । व्यपो॑ह्य॒ शीर्षक॑पाले, इति ।
मुखबिलस्यान्तर्जिह्वामूलस्योपरि स्थितौ वामदक्षिणभागौ तालुके इत्युच्येते । तयो-
र्के अन्तरेण तालुकेयोर्मध्ये वत्सतर्र्याः स्तन इव स्वल्पः कश्चिन्मांसखण्डो लम्बमा-
[Footnote]
१ ख. ॰ध्ये स° ।