तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 433, कुल 914 में से
संदर्भ में पढ़ें४३० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा० ६ अनु० १०]
कल्पः—"शुनं वाहा इति द्वाभ्यां प्रसव्यववृत्ताः षट्पराचीः सीताः कृषति" इति ।
तत्र प्रथमामाह—
शुनं॒ वाहाः॑ शुनं॒ नाराः॑ शुनं कृ॑षतु॒ लाङ्ग॑लम् । शुनं॒ वर॑त्रा बध्य-
न्ता॒५ शुनम॑ष्ट्रामु॒दिङ्ग॑य शुनासी॑रा॒ शुनम॒स्मासु॑ धत्तम् , इति ।
लाङ्गलं वहन्तीति वाहा बलीवर्दाः, ते शुनं सुखं यथा भवति तथा वहन्त्विति
शेषः । न(ना)रा बलीवर्दानां प्रेरका मनुष्याः शुनं सुखं यथा भवति तथा प्रेरयन्त्विति
शेषः । लाङ्गलं च शुनं सुखं यथा भवति तथा कृषतु । वरत्राश्चर्ममय्यो रज्जवोऽपि
शुनं सुखं यथा भवति तथा बध्यन्ताम् । अष्ट्रामारां तीक्ष्णाग्रलोहयुक्तं बलीवर्दप्रेरकं
दण्डं चोदिङ्गय हे कीनाश बलीवर्द