सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 432, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 432

[प्रपा० ६ अनु० ६] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ४२९
सप्त दिशो याः सन्ति तास्वनुक्रमेण जुहोमि । यथाऽयं द्रप्सो हुत आदित्यादिस्थान-
त्रयेषु सं(ये सं)चरन्नु१करोति तथा भावयामीत्यर्थः ।
अथ द्वितीयामाह—
इमꣳ॑ समु॒द्रꣳ श॒तधा॑र॒मुत्सं॒ व्यच्य॑मानं॒ भुव॑नस्य॒ मध्ये॑ । घृ॒तं
दुहा॑नामदि॑तिं जनाया॒ग्ने मा हि॑ꣳसीः प॒र॒मे व्यो॑मन्, इति ।
हेऽग्न इमं कुम्भं जनाय प्रेतपुरुषार्थे मा हिꣳसीर्हिंसितं मा कुरु । किंतु परमे
व्योम्न्युत्तमे विधिरक्षणे स्थितं कुरु । कीदृशमिमम् । समुद्रं समुद्रवत्प्रभूतम् । शत-
धारं शतसंख्याकधारोपेतम् । उत्सं प्रस्त्रवणयुक्तम् । भुवनस्य मध्ये व्यच्यमानं
सेव्यमानमभिव्यज्यमानं वा घृतं दु