तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 417, कुल 914 में से
संदर्भ में पढ़ें४१४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा०६अनु०३]
अनन्तरभाविनोर्मन्त्रयोर्विनियोगो भरद्वाजबौधायनाभ्यामनुक्तत्वादद्र्व्यान्तरे
द्रष्टव्यः । प्रकरणबलात्तु होमार्थता प्रतीयते । तत्र प्रथमं मन्त्रमाह—
यस्त॑ इ॒ध्मं ज॑भ॒रत्सिष्विदा॒नो मूर्धानं॑ वा तत॒पते॑
त्वा॒या । दि॒वो विश्व॑स्मात्सी॑मघाय॒त उ॑रुष्यः, इति ।
हेऽग्ने यो राक्षसादिस्ते तवेध्मं जभरदपहरति । अथवा त्वाया त्वदीयस्य दग्ध-
व्यस्य प्रेतस्य मूर्धानं स्वयं सिष्विदानः स्वेदं प्राप्तः संस्ततपतेऽतिशयेन तापं करोति।
शास्त्रीयदहनसाधनस्येध्मस्यापहारेण वा स्वकीयस्वेदेन मूर्धानं द्रवीकुर्वन्वा शास्त्रीयदहं
विनाश्य स्वर्गं १विहन्ति । दिवः स्वर्गस्याघायातोऽयं पापं विघ्नं य इच्छति तस्माद्वि-
श्वस्मात्सीं सर्वस्मादपि राक्षसादेरुरुष्योऽयं प्रेतो रक्षणीयः ।
अथ द्वितीयं मन्त्रमाह—
अ॒स्मात्त्वमधि॑ जा॒तोऽसि॒ त्वद॒यं जा॑यतां॒ पुनः॑ । अ॒ग्नये॑
वैश्वान॒राय॑ सु॒वर्गाय॑ लो॒काय॒ स्वाहा॑ ( १ ), इति ॥
य ए॒तस्य॑ त्वत्प॒ञ्च ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके षष्ठप्रपाठके
द्वितीयोऽनुवाकः ॥ २ ॥
हेऽग्नेऽस्माद्यजमानात्प्रेतात्त्वमधिजातोऽसि । अयं हि कर्मानुष्ठानेन त्वां स्वामिनं
संपादितवान् । अतः फलदशायामयं पुनस्त्वत्तोऽधिजायतां त्वमेव स्वर्गलोके यजमा-
नमुत्पादय । तत्सिद्धयर्थं